SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व प्रथम: सगे अजितनाथचरितम् । ॥१८४॥ SCSCARRAGE मकराननसौवर्णभृङ्गारलुठदम्बुभिः । जीमूतधाराभिरिव, स सस्नो भूभृतां वरः ॥ २३०॥ कोमलेन दुकूलेनोन्मृष्टाङ्गो नृपतिस्ततः । सर्वाङ्गमपि गोशीर्षचन्दनेन व्यलिप्यत ॥ २३१ ॥ नीलोत्पलदलश्यामः, शशिगर्भ इवाऽम्बुदः । पुष्पगर्भः केशपाशो, राज्ञस्तहररच्यत ॥ २३२ ॥ विशाले निर्मले स्वच्छे, मनोहरगुणे खैवत् । संविव्यायाऽथ भूनाथो, मङ्गल्ये दिव्यवाससी ।। २३३॥ ततः पुत्रोपनीतं स, नरेन्द्रमुकुटायितः । माणिक्यवर्णमुकुट, धारयामास मूर्धनि ॥ २३४॥ हार-केयूर-ताडङ्कप्रभृतीन्यपराण्यपि । स सर्वाङ्गं भृषणानि, पर्यधाद् गुणभूषणः ॥ २३५॥ रत्नकाञ्चनरूप्याणि, वस्त्राण्यन्यदपीप्सितम् । अर्थिभ्यः स ददौ तत्र, कल्पद्रुम इवाऽपरः ॥२३६ ॥ ततो नरशतोद्वाह्यां, शिविकां नरकुञ्जरः । आरोहत् पुष्पकमिव, विमानं नरवाहनः ॥ २३७ ॥ राजन् श्वेतातपत्रेण, चामराभ्यां च तत्क्षणात् । साक्षाद् रत्नत्रयेणेवाऽभ्यागतेन निषेवितः ।। २३८ ॥ बन्दिकोलाहलेनोचैस्तारतूर्यरवेण च । सुहृझामिव मिलयां, मुदमुद्बोधयन् नृणाम् ॥ २३९ ॥ श्रीमद्भिर्नृपसामन्तैः, पृष्ठतः पार्श्वतोऽग्रतः । आपतद्भिः शोभमानो, ग्रहरीजो ग्रहैरिख ।। २४०॥ . आवृत्तवृन्तपद्माभवलदीवेण सूनुना । आदेशकाविणा द्वास्थेनेवाग्रस्थेन शोभितः ॥ २४१॥ सम्पूर्णपात्रकुम्भाभिर्नागरीभिः पदे पदे । मङ्गलानि क्रियमाणानीक्षमाणो यथाक्रमम् ॥२४२॥ चित्रमञ्चशताकीण, पताकामालभारिणम् । पवित्रयन् राजमार्ग, यक्षकर्दमपङ्किलम् ॥ २४३॥ मश्चे मश्चे च गन्धर्ववर्गसङ्गीतपूर्वकम् । प्रतीच्छन् पण्यवनिताकृतारात्रिकमङ्गलम् ।। २४४ ॥ १ मेघः । २ केशपाशविधिज्ञैः । ३ आत्मवत् । ४ शोभमानः। ५ सूर्यः। ६ सुगन्धिद्रव्यविशेषः। ७ गृहन् । | पूर्वभवचरिते प्रथमो बिमक| वाहनभवः। ॥१८४॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy