SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ तच्च कर्ताऽश्वकण्ठस्य कण्ठं कदलिकाण्डवत् । निजेनैव हि चक्रेण हन्यन्ते प्रतिचक्रिणः॥ ७४८॥ मुदितैः खेचरैः पुष्पवृष्टिः शिरसि शाङ्गिणः। निदधे विदधे चोचैर्मुदा जयजयारवः ॥ ७४९॥ हयग्रीवस्य सैन्येऽपि सदैन्ये रुदितध्वनिः । समुत्तस्थौ प्रतिरवै रोदसी अपि रोदयन् ॥ ७५० ॥ हयग्रीवाङ्गसंस्कारमग्निना खजना व्यधुः । निवापमिव कुर्वन्तः पतद्भिर्नयनाश्रुभिः ॥७५१ ॥ विपद्य च हयग्रीवः सप्तम्यां नरकावनौ । नारकोऽभूत् त्रयस्त्रिंशत्सागरोपमजीवितः ॥ ७५२ ॥ अत्रान्तरे नभस्युच्चैरूचेऽमरवरैरिति । भो भो नृपतयः! सर्वे सर्वतो मानमुसँत ॥ ७५३ ॥ विमुञ्चत हयग्रीवपक्षपातं चिरादृतम् । त्रिपृष्ठं शरणं श्रेष्ठमुपाँध्वं किन्तु भक्तितः॥ ७५४ ॥ प्रथमो वासुदेवोऽयमुदपद्यत खल्विह । त्रिखण्डभरतक्षेत्रावनेर्भर्ता महाभुजः॥ ७५५॥ इति दिव्यां गिरं श्रुत्वा हयग्रीवस्य भूभुजः। सर्वेऽप्युपेत्य शिरसा प्रणेमुरचलानुजम् ॥७५६ ॥ रचिताञ्जलयश्चैवमूचुरमाभिरत्र यत् । अज्ञानात् परतत्रत्वाच्चापराद्धं सहख तत् ।। ७५७॥ अतः परं वयं नाथ! त्वदीयाः किङ्करा इव । करिष्यामस्तवैवाज्ञां तदा ज्ञापय नः प्रभो॥७५८॥ प्रत्युवाच त्रिपृष्ठोऽपि नापराधोऽस्ति कोऽपि वः। क्षत्रियाणां क्रमो ह्येष युद्धं खाम्याज्ञया खलु ॥७५९॥ विमुञ्चत प्रतिभयमयं खाम्यसि वोऽधुना । मदीयीभूय वर्तध्वं स्वस्वराज्येष्वतः परम् ॥ ७६०॥ . एवमाश्वास्य तान् राज्ञस्त्रिपृष्ठः सपरिच्छदः। जगाम पोतनपुरं पुरन्दर इवापरः॥ ७६१॥ अश्वग्रीवस्य । २ आकाशम् पृथ्वीं च । ३ मृतमुद्दिश्य दीयमानो जलाञ्जलिः निवापः। ४ उज्झत-मुखत । *रणश्रेष्ठ -सं० । विनेोक्ता-का। Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy