________________
बालोऽपि केसरी नेभान् महतोऽपि पलायते । महतोऽपि हि किं सत् तायवालोऽपसर्पति ?॥७२१॥ बालोऽपि सन्ध्यारक्षोभ्यः किं क्षुभ्यति दिवाकरः । बालोऽपि किमहं त्वत्तोऽपसमि रणाङ्गणे ॥७२२॥ शस्त्राणां प्राक् प्रयुक्तानां दृष्टं तावद् बलं त्वया । विमुच्यास्यापि वीक्षख किमवीक्ष्यैव गर्जसि ॥७२३ ॥ __ इत्याकर्ण्य हयग्रीवो व्योमाब्धेरौर्ववह्निवत् । शिरसि भैंमयामास तच्चक्रमतिभीषणम् ॥ ७२४ ॥ भ्रमयित्वा चिरतरं सर्वस्थाम्ना मुमोच सः । चक्रं तच्च्यवमानार्कमण्डलभ्रान्तिदं क्षणम् ।। ७२५ ॥ वक्षःस्थले शैलशिलाविशालकठिने हरेः । चपेटयैव तच्चक्रं पपात न तु धारया ॥ ७२६ ॥ आहतस्तस्य चक्रस्य तुम्बाग्रेण दृढीयसा । पपात मूञ्छितो विष्णुः कुलिशेने ताडितः ॥ ७२७॥ तस्थौ तत्रैव तच्चक्रं प्रतिजाग्रदिवाम्बरे । हाहारवः समुत्तस्थौ विष्णुसैन्येऽखिलेऽपि हि ॥७२८॥ प्रतिपक्षप्रहारेण भ्रातरं प्रेक्ष्य मुछितम् । मुमूर्छ नो हतोऽप्याशु बलभद्रः प्रियानुजः ॥ ७२९ ॥ सिंहनादं हयग्रीवश्चके सिंह इवोच्चकैः । तत्सैन्यैर्जयशंसीव चक्रे किलकिलारवः ।। ७३० ॥ लब्धसंज्ञः क्षणाद् रामः श्रुत्वा तं चोर्जितं ध्वनिम् । अस्थाने कस्य हर्षोऽयमिति पप्रच्छ सैनिकान् ॥७३१॥ तेऽप्यूचुर्देव! हृष्टानां कुमारस्यापदाधुना । हयग्रीवस्य सैन्यानामिदं गर्जितमूर्जितम् ॥ ७३२॥ ऊचे रामोऽपि मद्वन्धोरपि व्यापत्तिरस्ति किम् । रथे शेते क्षणमसौ रणश्रान्तो ममानुजः॥ ७३३ ॥ मद्वन्धोापदमिमां व्यलीका खमनीषया । तर्कयित्वा प्रहृष्टानामेष हर्ष हराम्यहम् ॥ ७३४ ॥
'न इभान्' इति विभागः। २ तायंबाल-गरुडः। ३ संध्याराक्षसेभ्यः। * °सि भ्रामया -सं०॥ तिदॐाक्षिणम्-सं० ॥ व पर्वतः-सं०॥ ४ आपदा-तृतीयान्तम् । पि मे ब-सं०॥
ण भ्रातरं प्रेक्ष्य पाम्बरे । हाहारवः समता विष्णुः कुलिशेनेवा
ndhal
For Private & Personal use only
www.jainelibrary.org