________________
ROSCOSOGGLE
वज्राकरशिलासारं दंष्ट्रां पितृपतेरिव । स्वसारं तक्षकस्येव हयग्रीवोऽमुचत् गदाम् ॥ ६९४ ॥ अभाशीदन्तरिक्षेपि मङ्घ तामप्यधोक्षजः । वालुकामोदकमिव कौमोदक्या महाभुजः ॥ ६९५॥ एवं भग्नेषु शस्त्रेषु विलक्षो वाजिकन्धरः। विधुरे बन्धुवद् वीरः पन्नगास्त्रमथासरत् ॥ ६९६ ॥ चापे संधाय नागास्त्रं मुमोचोदभवन्नथ । अनेकशः प्रस्फुटतो वल्मीकादिव पन्नगाः॥ ६९७॥ धावन्तः स्फारफुत्कारा भूमौ नभसि चाहयः। पातालकल्पं विदधुस्तिर्यग्लोकं क्षणादपि ॥ ६९८ ॥ प्रलम्बा दारुणाः कृष्णाः स्फुरन्तस्ते महाऽहयः। सद्यः सहस्रधोद्भूतकेतुशङ्कां वितेनिरे ॥ ६९९॥ मृत्योरिवार्वेसपैस्तैः सः सर्पद्भिरम्बरे । अपासर्पन दूरदूरं चकिताः खेचरस्त्रियः॥ ७००॥. जज्ञे त्रिपृष्ठसैन्यानामप्याशङ्का महीयसी । स्वामिप्रभावाज्ञत्वेन भक्त्या च भवेतीदृशम् ॥ ७०१॥ गारुडास्त्रमथो धन्वन्यारोप्य गरुडध्वजः । मुमोच मोचादलवत् तस्य शस्त्रस्य पन्नगान् ॥ ७०२॥ प्रादुरासन् गरुत्मन्तो विदधानाः प्रसारिभिः। स्वर्णच्छत्रशताकीर्णामिव द्यां पक्षडम्बरैः ॥७०३॥ युग्मम् । तेषां च पक्षसूत्कारादपि नेशुः समन्ततः । महाऽहयस्तमांसीव सहस्रकिरणोद्गमात् ॥ ७०४॥ वीक्षापन्नः पन्नगास्त्रमपि वीक्ष्य निरर्थकम् । प्रदध्यावस्त्रमानेयं दुर्धरं हयकन्धरः॥७०५॥ आग्नेयवाणं धनुषि संघाय व्यसृजच्च सः । ज्वालाभिरभिंतन्वानमुल्काशतमयीं दिवम् ॥ ७०६॥ मग्नं प्रदीपन इव त्रिपृष्ठस्याखिलं बलम् । 'और्वभीताब्धियादोवत् तदाकुलमजायत ॥ ७०७॥
• °सारां दं-सं० का. पितृपतिः-यमः । २ भज्यमानात् । ३ केतुशङ्का-ध्वजशङ्का । ४ अवसर्पः-चरः । ५ 'भवति| ईदृशम्' इति विमागः। ६ मोचा-कदली। ७ पक्षसूत्कार:-पक्षध्वनिः । - विस्मितः । ९ विस्तारयन्तम् । १० औवः-वडवानलः ।
G 46***
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org.