________________
त्रिषष्टि. ६४
Jain Education Inte
बलो नामाग्रजोऽयं मे बलेन बलसूदनः । प्रतिमल्लो न यस्यास्ति त्रैलोक्ये कीदृशो भवान् ॥ ६६८ ॥ अलं सैन्यक्षयेणेति तवाप्यभिमतं यदि । गृहाणास्त्रं महाबाहो ! ममैवासि रणातिथिः ॥ ६६९ ॥ अस्त्वावयोर्द्वन्द्वयुद्धं पूर्यतां भुजकौतुकम् । सभ्यीभूयावतिष्ठन्तु सैनिका उभयोरपि ॥ ६७० ॥ तथेति प्रतिपेदानौ हयग्रीव बलानुजौ । वारयामासतुः सैन्यान्याहवाद् वेत्रपाणिभिः ॥ ६७१ ॥ न्यस्यैकं । लेस्तके हस्तमपरं त्वेटनीतटे । चक्रेऽधिज्यं हयग्रीवो यमभ्रूभीषणं धनुः ॥ ६७२ ॥ रणश्रीकेलि संगीततत्रीमिव धनुर्गुणम् । पाणिना वादयामास मयूरग्रीवनन्दनः ॥ ६७३ ॥ शॉर्ङ्गमारोपयामास शार्ङ्गपाणिरपि क्षणात् । द्विषां विनाशपिशुनं निशामत्स्यमिवोद्गतम् ॥ ६७४ ॥ वज्रनिर्घोषवद् घोरं मृत्यो चाहानमत्रकम् । द्विषां बलहरं विष्णुर्धन्वघोषमकारयत् ।। ६७५ ।। बाणधेर्वाणमाकृष्य करण्डादिव पन्नगम् । चापे संधाय चाकर्ण चकर्ष हयकन्धरः ॥ ६७६ ॥ कटाक्षमिव कालस्य कल्पान्तानेः शिखामिव । भाभिर्ज्वलन्तं तं बाणमुल्बणं प्रमुमोच सः ॥ ६७७ ॥ तमापतन्तं वाणेन सद्यो मुक्तेन केशवः । चिच्छेदा जलताच्छेद मविच्छेदपराक्रमः ।। ६७८ ॥ प्रथमेनेव बाणेन लाघवादपरेण तु । हयग्रीवस्य धन्वाऽपि निचकर्त्ताचलानुजः ॥ ६७९ ॥ भूयो भूयो हयग्रीवो धनुर्यद् यदुपाददे । तत् तत् त्रिपृष्ठचिच्छेद तन्मनोरथवच्छरैः ॥ ६८० ॥
* भूयेऽव-सं० का० ॥ + कं हस्तके - सं० ॥ १ लस्तकम् - धनुर्मध्यम् । २ अटनी - धनुषः अग्रम् । ३ शृङ्गनिर्मितं धनुः शार्ङ्गम् । + °धनुर्घोष सं० ॥ \ 'छेदेक्षुल-सं० का० ॥ ५ निचकर्त चिच्छेद ।
४ भा-प्रभा ।
For Private & Personal Use Only
www.jainelibrary.org.