________________
GROGRAMMASSOS
अखवृष्ट्या तयाऽक्लाम्यत त्रैपृष्ठमखिलं बलम् । धीरा अपि हि किं कुर्यु चरा व्योमचारिषु ॥ ६४२ ॥ राम-त्रिपृष्ठ-ज्वलनजटिनः स्यन्दनस्थिताः । उत्पेतुर्नभसा सद्यः समं विद्याधरैर्निजैः ॥ ६४३ ॥ नभस्युभयतो विद्याधरा युयुधिरेऽधिकम् । विद्याशक्तिं दर्शयन्तो गुरुष्विव परस्परम् ॥ ६४४ ॥ भृचरा भूचरैः साधं सैन्ययोरुभयोरपि । क्रुध्यन्तः समयुध्यन्त गजा इव गजैर्वने ॥ ६४५॥ विद्याधराणामन्योऽन्यं शखैः प्रहरतां भृशम् । अदृष्टपूर्वाऽमृग्वृष्टिरुत्पातकदिवाऽभवत् ॥ ६४६॥ अन्योऽन्याऽऽघातशब्देन शब्दायितनभस्तलम् । दण्डसंगीतवत् कैश्चिद् दण्डादण्डि प्रचक्रमे ॥ ६४७ ॥ खड्गदण्डैः सदोर्दण्डचण्डिमानश्च केचन । डिण्डिमानिव कोणेन विपक्षान् पर्यताडयन् ॥ ६४८॥ मिलन्तः केचिदन्योऽन्यमन्यजन्यजयाऽसहाः। स्फारानास्फोटयामासुः स्फुरकान कांस्यतालवत् ॥६४९॥ शक्तीः प्रचिक्षिपुः केपि सीमन्तितनभस्तलाः । तडत्तडिति कुर्वाणास्तमितस्तोयदा इव ॥ ६५०॥ शल्यैः प्रववृषुः केचिदुरगैरिव दारुणैः । पत्रिभिः प्रस्फुरत्फ्त्रैः पत्रिरोजैरिवाऽपरे ॥ ६५१॥ बले द्वयोरुत्पतितः पतितैश्चैवमायुधैः । नानायुधमयीव द्यौधरित्रीवाऽभवत् तदा ॥ ६५२ ॥ सद्यश्छित्वा करोपात्तैः केपि प्रत्यर्थिमौलिभिः । अलक्ष्यन्त रणक्षेत्रे क्षेत्रपाला इवोद्भटाः ॥ ६५३ ॥ हेरम्बा इव नागास्सैरश्वास्यैः किन्नरा इव । सद्यः कबन्धोपरिष्टात् पतितः केपि रेजिरे ॥ ६५४ ॥
* या क्लान्तं त्रै-सं० । दण्डसंगीतम्-भाषायाम् 'दांडिया रास' इति । २ कोणः-वीणावादनकाष्ठम् । ३ स्फुरका:-फलकाः भाषायाम् 'ढाल' इति । ४ पत्रम्-बाणाप्रम्, पक्षं च। ५पत्रिराजःपारुडः । बलैद्धयो° सं०। ६ गणपतयः। ७ कबन्धः-क्रियायुक्तं मस्तकरहितं शरीरम्-भाषायाम् 'धड' इति ।
शक्तीः प्रविक्षिपुर कापजन्यजयाऽसहाः । स्फारानासन विपक्षान् पर्यताडयन् ॥
Jain Education Internal
For Private & Personal use only
T
w w.jainelibrary.org