SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ॥३७२॥ Jain Education Inte भीरवः फेरव इव प्रशुः केऽपि च द्रुतम् । नेत्रे पिधाय लीवा च केऽप्यस्थुः शशका इव ॥ ६३१ ॥ उलूकवत् प्रविविशुः कन्दरामुत केचन । केचिदाराटिषुः शङ्खा इव वारिबहिष्कृताः ।। ६३२ ॥ अभूतपूर्वमम्भोधिसंशोषणमिवात्मनः । सैन्यभङ्गं समाकर्ण्य हयग्रीवोऽब्रवीन्नजान् ॥ ६३३ ॥ करे ! विद्याधरा ! याथ त्रस्ताः शङ्खध्वनेरपि । वृषभध्वनितस्येव मृगप्रभृतयो वने ॥ ६३४ ॥ को दृष्टो विक्रमस्तस्य त्रिष्टष्ठस्याऽचलस्य वा । यत्रस्ताः पशुवद् यूयं चञ्चापुरुषदर्शनात् ॥ ६३५ ॥ नानारणजयोद्भूतं युष्माभिर्धारितं यशः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः ।। ६३६ ॥ व्यावर्तध्वमिदं वो हि दैवात् स्खलितमागतम् । नभश्वराणां भवतां केऽपरे भूमिचारिणः १ ॥ ६३७ ॥ युध्यध्वं माऽथवा यूयं सभ्यीभवत केवलम् । अहं खलु हयग्रीवः साहाय्यार्थी रणे न हि ॥ ६३८ ॥ इत्युक्ता हयकण्ठेन नमत्कण्ठास्त्रपावशात् । विद्याधरा ववलिरे* शैलस्खलितसिन्धुवत् ॥ ६३९ ॥ रथस्थो व्योमयानेन क्रूर ग्रह इवापरः । द्विषो ग्रसितुमव्यग्रो हयग्रीवोऽप्यथाचलत् ॥ ६४० ॥ ववर्ष बाणैः पाषाणैः शल्यैरस्त्रैरथापरैः । अधित्रिपृष्ठसैन्यं सोऽवमेघ इव नूतनः ॥ ६४१ ॥ १ फेरुः शृगालः । २ दृष्टिपथातीता भूत्वा 'संताई जईने' 'छुपाई जईने' इति भाषायाम् । ३ राटिं चक्रुःभाषायाम्- 'राडोपाडी' । ४ जलनिर्गताः । ५ अत्र हेत्वर्थद्योतक पञ्चम्यर्थेऽपि षष्ठी 'वृषभगर्जनात्' इत्यर्थः । ६ चनापुरुषो नाम पक्षिभयजननाय कृषिक्षेत्रे ऊर्ध्वकृतः तृणमयो वस्त्रमयो वा पुरुषाकृतिविशेषः- भाषायाम् 'चाडिया' इति प्रतीतिः । ७ कज्जललवोऽपि भाषायाम् 'कालो बाघ' । * रे वेलाऽवलितसिन्धु- सं० । ८ त्रिपृष्ठसैन्यस्य अधिउपरि-इत्यर्थः । For Private & Personal Use Only चतुर्थ पर्व प्रथमः सर्गः श्रेयांस जिन चरितम् । ॥३७२ ॥ wwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy