________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
| चतुर्थ पर्व
प्रथमः
सर्गः
श्रेयांसजिनचरितम् ।
॥३६९॥
तेन दन्दुभिशब्देन सद्यः सर्वेऽपि सैनिकाः। एयुः सर्वाभिसारेण दूरात् पार्थस्थिता इव ॥ ५५७॥ स्नानागारं हयग्रीवो गत्वा भृङ्गारवारिभिः । गङ्गातरङ्गैरुत्तुङ्गैः सस्त्री हंस इवाऽमलैः ॥ ५५८ ॥ उन्मृष्टाङ्गो दुकूलेन दिव्यधूपैश्च धूपितः । शुभ्रीकृताङ्गो गोशीर्षचन्दनैनन्दनाऽऽहतैः॥ ५५९॥ संवीतसदशश्वेतवस्त्रो बद्धासिधेनुकः । पुरोधःकृततिलकः स राजतिलकस्ततः ॥५६०॥ वैतालिकैः स्तूयमानो विशदच्छत्रचामरः । मदसिक्तावनितलमारुरोह महागजम् ॥ ५६१॥
॥ त्रिमिर्विशेषकम् ।। दुर्वारर्वारणैरवै रथैश्च परिवारितः । प्रचचाल हयग्रीवश्चलयनचलानपि ॥ ५६२ ॥ गच्छतस्तस्य सहसोद्भूतचण्डोनिलेन तु । छत्रस्याऽऽन्दोल्यमानस्य दण्डोऽभज्यत वृक्षवत् ॥ ५६३ ॥ अनोकहात् पुष्पमिव तारकेव नभस्तलात् । हयग्रीवशिरसस्तत् पपाताऽऽतपवारणम् ॥ ५६४ ॥ मदस्तदानीं करिणस्तस्य चाशुष्यदञ्जसा । सरसी ज्येष्ठमासीव शरदीव च कर्दमः॥ ५६५ ॥ मोमुत्र्यते स्म तत्कालं कालभीत इव द्विपः । ररास विरसं चापि नोद्धुरं च शिरो दधौ ॥५६६ ॥ रजोवृष्टिरसृग्वृष्टिर्दिवा नक्षत्रवीक्षणम् । उल्कापातस्तडित्पात इत्युत्पाताश्च जज्ञिरे ॥ ५६७॥ दीनस्वरं प्ररुदितं सारमेयेरुदाननैः। आविर्भूतं च शशकैचिल्लीभिर्धान्तमम्बरे ॥ ५६८॥
भृङ्गार:-सुवर्णपात्रम् । *कृताङ्गरागो गो सं० का० । २ नन्दनवनादानीतः। ३ असिधेनुका-छुरिका।। Fil: अचला-पर्वताः। ५ चण्डानिलेन-प्रचण्डपवनेन । ६ वृक्षात् । ७ उन्नतम् । ८ असग्-रुधिरम् । ९ अर्वमुखेः श्वानः MI.चिल्ली 'समळी' इति भाषायाम् । 'चिल' इति हिन्दीभाषायाम् ।
ESATARISHAHARASHTRA
॥३६९॥
Jain Education Internal
For Private & Personal use only
.www.jainelibrary.org.