SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते Brot द्वितीयं पर्व प्रथमः सगे: अजितनाथचरितम् । ॥१८३॥ उत्पत्योत्पत्य राजानोऽभ्यषिञ्चनपरेऽपि तम् । नवोदयमिवाऽऽदित्यं, नमश्चक्रश्च भक्तितः ॥ २०१॥ नृपादेशेन सदशान्यंशुकानि स पर्यधात । तैश्चाऽदत्रैः शारदाप्रैः, शुभ्रर्गिरिरिवाऽऽबभौ ॥ २०२॥ गोशीर्षचन्दनस्तस्याऽङ्गरागं वारयोषितः । सर्वाङ्गीणं विदधिरे, ज्योत्स्नापूरैखिाऽमलैः ॥२०३ ॥ मुक्तामयानि सर्वाङ्गं, भूषणानि स पर्यधात । निर्मितानि दिवः कृष्टा, प्रोतैरुईंगणैरिव ।। २०४ ।। ज्वलन्माणिक्यतेजस्कं, किरीटं तस्य मूर्धनि । खयं न्यवेशयद् राजा, स्खं प्रतापमिवोर्जितम् ।। २०५॥ तस्य मूर्ध्नि धराधीशो, धारयामास निर्मलम् । सितच्छत्रं यश इव, प्रादुर्भूतं क्षणादपि ॥२०६॥ पार्श्वतो वारनारीभिरवीज्यत स चामरैः । राज्यसम्पल्लतोद्भुतप्रसूनस्तबकैरिव ॥ २०७॥ चन्दनेन स्वयं भूपस्तद्भाले तिलकं व्यधात् । उदयाचलचूलास्थनिशाकरविडम्बिनम् ।। २०८ ॥ राजा राज्ये निवेश्यैवं, कुमारं परया मुदा । लक्ष्म्या रक्षामन्त्रमिव, सम्यक शिक्षां ददाविति ।। २०९ ॥ क्षितेरसि त्वमाधारस्तवाऽऽधारो न कोऽपि तत् । त्यक्त्वा प्रमादमात्मानमात्मना वत्स धारयः ।।२१०।। भ्रश्यत्याधारशैथिल्यादाधेयं ननु सर्वथा । विषयातिप्रसङ्गोत्थं, शैथिल्यं तस्स रक्ष तत् ॥ २११॥ यौवनं विभवो रूपं, खाम्यमेकैकमप्यतः । प्रमादकारणं विद्धि, बुद्धिमत्कार्यसिद्धिभित् ।। २१२ ॥ कुलक्रमागताऽप्येषा, लक्ष्मीश्छलगवेपिणी । दुराराधा छलयति, राक्षसीव प्रमद्वरम् ।। २१३ ॥ चिरवासभवस्नेहो, नाऽस्याः स्थैर्याय किन्त्वसौ । प्रयाति लब्धावसरा, शारिकेवाऽन्यतो द्रुतम् ।। २१४ । कुलटेवाऽपवादेभ्यो, भीरुतामदधत्यसौ । सुप्तवञ्जाग्रतमपि, प्रमत्तं पतिमुज्झति ।। २१५ ॥ वनप्रान्तसहितानि । २ सर्वाङ्गब्याप्तम् । ३नक्षत्रसमूहः। ४ स्वामिता । ५ छिद्रान्वेषिणी । ६ प्रमादिनम् । पूर्वभवचरिते प्रथमो विमकवाइनभवः। nost ॥१८३॥ Jain Education Internet For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy