SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ CONOCRATESCREEN GESCHOSSEISUSTAIGOS अहो! दैवेन दुर्बुद्धिर्दत्ताऽऽग्निजटिनः खलु । कृकैलास इवाऽर्कस्य यः स्यादभिमुखो मम ॥ ५१९ ॥ आभिजात्यमहो! तस्य कीदृशं ? यो विहाय माम् । स्वसुतापतिपुत्रेणाऽऽत्मकन्यां पर्यणाययत् ॥५२०॥ मूर्यो मुमूर्षुरेकः स तावज्वलनजव्यहो! । प्रजापतिद्धितीयोऽन्यः सापत्नभगिनीसुतः ॥ ५२१॥ अपरश्च पितुःशाल स्वज्ञातेयेन नित्रपाः। मां प्रत्यारम्भमिच्छन्ति शृगाला इव जागैरम् ॥५२२॥॥युग्मम्॥ विद्रावयत तान् गत्वा पवनास्तोयदानिव । शार्दूला इव हरिणान् हरयः कुञ्जरानिव ॥ ५२३ ॥ ___ अथ विद्याधराः सर्वे रणकण्डूलबाहवः । तया खाम्याज्ञयाऽहृष्यंस्तृषिता इव वारिणा ॥ ५२४ ॥ पृथक् पृथग् युत्प्रतिज्ञां कुर्वाणा भुजशालिनः। स्फोटयन्त इव दिवं भुजास्फोटोद्भवै रवैः ॥ ५२५॥ उक्त्वा मित्रेष्विवामित्रेष्वपि सङ्क्रामकौतुकात । मम प्राग मा परो जैषीदित्यन्योऽन्यमतित्वराः॥५२६॥ कशाभिस्ताडयन्तोऽश्वान् प्रेरयन्तो यतैर्गजान । प्राजन्तः प्राजनैधुर्यान् निघ्नन्तो यष्टिभिर्मयान् ॥५२७॥ नर्तयन्तो निशातासीन् स्फारयन्तः स्फुरान् मुहुः । सजायन्तश्च तूणीरान् वादयन्तो धनुर्गुणान् ॥५२८॥ भ्रामयन्तो मुद्रांश्च चालयन्तो महागदाः । स्फाटयन्तस्त्रिशल्यांश्च दधानाः परिघानपि ॥ ५२९॥ केपि खेन समापेतुर्भुवा केऽपि च कौतुकात् । प्रापुश्च पोतनपुरमश्वग्रीवस्य ते भटाः॥५३०॥ ॥षभिः कुलकम् ॥ १ कृकलास:-'काकीडो' इति भाषायाम् । २ प्रत्यारम्भः-संग्रामः। ३ जागर:-सिंहः। ४ सिंहाः। ५कण्डलम्-'खंज| वाळवाळु'-'चळवाळु' इति भाषायाम् । ६ युद्धप्रतिज्ञाम् । यता:-अङ्कुशाः। ८प्राजना:-'परोणा' इति भाषायाम् । |९ बलीवर्दान् । १० उडान् । ११ स्फुराः 'डाल' इति भाषायाम् । * "खिशल्लीश्च सं० का० । महागुदाः । समाजायन्तश्च तूणीरान पेतुर्भुवा A- त्रिषष्टि. ६३ JainEducation inale For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy