________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
॥३६७॥
इत्युक्तः सोऽग्निजटिना दूतोऽन्तःकलुषः खलु । उपत्रिपृष्ठमगमन्निसृष्टार्थो हि स प्रभोः ॥५०६॥ त्रिपृष्ठं चेत्यभाषिष्ट समादिशति मद्गिरा क्ष्मामण्डलाऽऽखण्डलस्त्वामश्वग्रीवो जगजयी ॥५०७॥ अस्मदर्हा कन्यकेयमज्ञानादाददे त्वया । विमुग्धपथिकेनेव राजोद्यानतरोः फलम् ॥ ५०८ ॥ ईशोऽहं वः सबन्धूनां रक्षिताः स्थ चिरं मया । तत् कन्यां मुश्च भृत्यानां प्रमाणं खामिशासनम् ॥५०९॥ विकटभ्रकुटीभङ्गभीमभालस्थलस्ततः । रक्तेक्षण-कपोलश्रीस्त्रिपृष्ठः प्रत्युवाच तम् ॥ ५१०॥ स एवं जगति न्याय प्रवर्तयति ते प्रभुः। अग्रेगरिव लोकानामहो! तस्य कुलीनता ॥ ५११॥ तेन स्वविषये मन्ये विध्वस्ताः कुलयोषितः । मार्जारयनः पुरतः किं दुग्धमवशिष्यते ॥ ५१२॥ अस्मासु स्वामिता तस्य कुतो हन्ताऽमुना पथा? । अन्यत्रापि स्वामिताऽस्य गैत्वर्येवाचिरादपि ॥५१३ ॥ स शालिभोजनस्येव तृप्तवान् जीवितस्य चेत् । खयम्प्रभामुपादातुं तदत्राऽऽगच्छतु स्वयम् ॥ ५१४॥ दूतत्वेन न वध्योऽसि गच्छ मा तिष्ठ सम्प्रति । तमेव हि हनिष्यामो हयग्रीवमिहाऽऽगतम् ॥ ५१५॥ इत्युक्तो विष्णुना दूतः प्रतोदेनेव ताडितः। गत्वा शीघ्रं सर्वमाख्यदश्वग्रीवाय भूभुजे ॥ ५१६॥ तदाकर्ण्य हयग्रीवो लोहितायितलोचनः । प्रस्फुरदंष्ट्रिकाकेशो दशनैरधरं दशन् ॥ ५१७ ॥ वेपमानवपुर्णीमभ्रकुटीविकटार्लिंकः । विद्याधरवरानेवं सावज्ञा-कोपमादिशत् ॥ ५१८ ॥ युग्मम् ॥
१ त्रिपृष्ठसमीपम् । २ उभयपक्षयोः अभिप्रायं संवुध्य स्वप्रतिभया प्रतिवक्ति संदिष्टः संश्च कार्याणि करोति सः निसृष्टार्थः । ३ 'यूयम्' इति शेषः। ४ अनेगू:-अग्रणीः। ५ गमनशीला-नाशशीला। ६ भाषायाम् 'परोणो' नामकं वृषभादिताडनसाधनम् । ७ भाषायाम्-'दाढीना केशो'। ८ अलिकम्-कपालम् ।
॥३६७।
Jan Education inte
For Private & Personal use only
www.jainelibrary.org