SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna प्रदक्षिणचक्रतुस्तौ प्रदक्षिणशिखोद्गमम् । वेदिवहिं वेदमन्त्राध्यापकेषु द्विजन्मसु ॥ ४९२ ॥ इत्थं स्वयम्प्रभां देवीं परिणीय बलानुजः । तया सहाऽऽरुह्य वशीं प्रतस्थे स्वगृहं प्रति ।। ४९३ ॥ उलूलुध्वनिना तूर्यनादेन च महीयसा । उत्कर्णिताऽर्यमहरिर्जगाम स्वगृहं हरिः ॥ ४९४ ॥ तदाऽज्ञासीद्वयग्रीवस्तद्वृत्तं चरचक्षुषा । अग्रेऽपि सिंहकथया क्रुद्ध क्रोध चाधिकम् ।। ४९५ ।। एवं च दध्यौ ज्वलनजटिना मयि सत्यपि । स्त्रीरत्नं दीयतेऽन्यस्मै रत्नं रत्नाकरे हि यत् ॥ ४९६ ॥ तस्या दातुरुपादातुस्तस्य चान्ते व्रजत्वसौ । तां कन्यां याचितुं दूतो दूतो हि प्रथमो नये ॥ ४९७ ॥ एवं विमृश्य मनसाऽनुशिष्य च रहः स्वयम् । व्यसृजन्नूतनं दूतं स पोतनपुरे पुरे ॥ ४९८ ॥ स दूतः सत्वरं गत्वा समीरणकुमारवत् । वेश्म ज्वलनजटिनः प्रविवेशेत्युवाच च । ४९९ ॥ दक्षिण भरतक्ष्मार्थं लोकार्धमिव वज्रिणः । प्रशासितुर्हयग्रीवस्याऽऽज्ञया त्वां वदाम्यदः ॥ ५०० ॥ तव स्वयम्प्रभा नाम कन्यारत्नं गृहेऽस्ति भोः ! । तां गत्वा स्वामिने देहि रत्नं नान्यस्य भारते ॥ ५०१ ॥ स्वामी वः सकुटुम्बानामश्वग्रीवः सुताऽपि तत् । तस्याऽस्तु दीयते हन्त । किं शिरो नयने विना १ ॥ ५०२ ॥ अश्वग्रीवं पुराऽऽराद्धं पुत्र्यदानात् प्रकोपयन् । किं हारयसि फूत्कृत्य त्वमहो ! धमीतकाञ्चनम् १ ||५०३ ॥ इत्युक्तस्तेन दूतेनोवाच ज्वलनजस्यपि । दत्ता कन्या त्रिष्टष्ठाय कन्यादानं सकृत् खलु ॥ ५०४ ॥ अन्यस्यापि प्रदत्तस्य वस्तुनः स्वामिता न हि । किं पुनः कुलकन्याया विचारयतु स स्वयम् ।। ५०५ ।। ऊर्ध्वकर्णाः अर्थग्णः सूर्यस्य हरयः - अश्वाः येन सः, एतद् हरेः विशेषणम् । ६ अमितापितसुवर्णम् । १ हस्तिनीम् । २ उलूलुः - मङ्गलध्वनिः । ४ वायुकुमारवत् । ५ भाषायाम्- 'फूंक मारीने' । ३ For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy