SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ मत्रिभिर्मत्रयमाणोऽप्युपलेभेन कञ्चन । अनुरूपं वरं राजाऽपृच्छन्नैमित्तिकं ततः ॥ ४६३ ॥ नैमित्तिकेन सम्भिन्नश्रोतसाऽऽख्यायि यत सुता। अनुरूपा त्रिपृष्ठाय प्राजापत्याय दीयताम्॥४६४॥ प्रथमो वासुदेवोऽयं भोक्ष्यते चार्धभारतम् । श्रेणिद्वयाधिपत्यं वः प्रसन्नश्च प्रदास्यति ॥४६५॥ एवं नैमित्तिकगिरा प्रीतो मां प्राहिणोत् प्रभुः । तामादातुं त्रिपृष्ठाथै स्वामिस्तदनुमन्यताम् ॥ ४६६ ॥ प्रीतः प्रजापतिनृपस्तथेति प्रतिपद्य ताम् । विससर्ज यथौचित्यदानपूर्वमखर्वधीः ॥ ४६७॥ ___ अश्वग्रीवाशङ्कया च नृपो ज्वलनजट्यपि । तामुद्वाहयितुं कन्यां प्रजापतिपुरं ययौ ॥ ४६८ ।। सविद्याधरसामन्तः सामात्य-बल-वाहनः। तस्थौ तन्नगरोपान्ते मर्यादायामिवार्णवः ॥ ४६९ ॥ सप्रधानपरीवारः प्रजापतिरथ खयम् । तस्याभिमुखमागच्छत सर्वस्याभ्यागतो गुरुः ॥ ४७० ॥ द्वयोरपि महासैन्ये मिलिते प्रीतियोगतः । चकासामासतुर्गङ्गा-यमुनाश्रोतसी इव ॥ ४७१ ॥ उभावपि गजारूढी सामान्यप्रतिपत्तितः । अन्योऽन्यं पैरिरेभाते सामानिकसुराविव ॥ ४७२॥ तयोर्द्वयोः क्षितिभुजोः सूर्याचन्द्रमसोरिव । द्राक् सङ्गमेन दिवसः स पर्वदिवसोऽभवत् ॥ ४७३ ॥ आर्पयच्चावासभुवं विद्याधरमहीभुजे । मैनाकायेव पाथोधिः प्रजापतिमहीपतिः॥४७४ ॥ तत्र विद्याधरा विद्याबलाद् व्यरचयन् पुरम् । विचित्रहर्म्यरुचिरं द्वितीयमिव पोतनम् ॥ ४७५ ॥ पुरस्य तस्य मूर्धन्ये प्रासादे दिव्यतोरणे । उवास ज्वलनजटी मेराविव दिवाकरः ॥४७६ ॥ सामन्ता-ऽमात्य-सेनानीप्रमुखा अपरेऽपि हि । ऊषुर्यथाहं हयेषु विमानेष्विव नाकिनः ॥ ४७७ ॥ * त्यं च प्रसन्नस्ते प्रमु०॥ महाबुद्धिः । २ महान् । ३ आलिङ्गितौ। ४ मैनाको नाम पर्वतः । ५ निवासं चक्रुः || Jain Education I al For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy