SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Jain Education Interna af द्यौवनां राजा वरान्वेषणकर्मणि । चिन्ताप्रपन्नः समभूद् ऋणमनः पुमानिव ॥ ४३४ ॥ विसृज्य सप्रसादं तां वरं तदुचितं नृपः । सुश्रुतादीन् समाहूय परिपप्रच्छ मन्त्रिणः ।। ४३५ ।। trissa सुश्रुतोsवादीदस्ति रत्नपुरे पुरे । राजा नीलाञ्जनादेवी मयूरग्रीवयोः सुतः ।। ४३६ ॥ साधिताने कविद्यत्रिखण्ड भरतेश्वरः । विद्याधरेन्द्रोऽश्वग्रीवाभिधानः प्रवरो वरः || ४३७ ॥ मन्त्री बहुश्रुतोऽप्यूचे समतिक्रान्तयौवनः । स्वयम्प्रभायाः स्वामिन्या न योग्यः खल्वयं वरः || ४३८ ॥ तिष्ठन्ति चोत्तरश्रेण्यां बहवो बाहुशालिनः । रूप-यौवन - लावण्यवन्तो विद्याधरोत्तमाः ॥ ४३९ ॥ तेषां च मध्यादेकस्य कस्याप्येषा मृगेक्षणा । विचार्य दीयतां देवानुरूपं योगमिच्छता ॥ ४४० ॥ trissaभाषे सुमतिर्नाम मन्त्री महीपतिम् । युक्तमुक्तमनेनेदमायुक्तेन तव प्रभो ! ॥ ४४१ ॥ अत्राद्रावुत्तरश्रेणिहारनायकतां गता । प्रभङ्करा नाम नगैर्यनेकाद्भुततैकभूः ॥ ४४२ ॥ ओजो दधन् मघवनं तत्र मेघवनाभिधः । प्रातर्मेघ इवामोघेंः समस्ति पृथिवीपतिः ॥ ४४३ ॥ सधर्मचारिणी तस्य नामतो मेघमालिनी । मालतीपुष्पमालेव शीलसौरभंसालिनी ॥ ४४४ ॥ अस्ति विद्युत्प्रभो नाम नामिताशेषभूपतिः । कन्दर्प इव रूपेणाप्रतिरूपेण तत्सुतः ॥ ४४५ ।। तयोरस्ति च दुहिता ज्योतिर्मालेति नामतः । देवकन्येव निःसीमरूपलावण्य सम्पदा ॥ ४४६ ॥ विद्युत्प्रभ कुमारस्योचिता देवी स्वयम्प्रभा । विद्युद् वारिधरस्येव द्युतिद्योतितदिखा ॥ ४४७ ॥ १ उद्यौवना-विकसमान यौवना । * 'गर्यस्त्यनैकाद्भुतै सं० ॥ २] अनेकार्य करपदार्थस्थानम् । ३ इन्द्रसम्बन्धि । ४ अमोघः - सफलः । + "भशालि° मु० ॥ For Private & Personal Use Only Www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy