SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Jain Education In नरेषु सिंहः खल्वेष पशुषु त्वं तु तत् तव । हतस्यानेन का व्रीडा श्लाघा प्रत्युत तद्रणे ॥ ४०६ ॥ तस्येति वचसा शान्तः सुधावृष्ट्येव केसरी । मृत्वा बद्धायुरुत्पेदे नारको नरकावनौ ॥ ४०७ ॥ हयग्रीवाज्ञया तत्र तद्वृत्तं ज्ञातुमेयुषाम् । विद्याधराणां तच्चर्मार्पियन्नूचेऽचलानुजः ॥ ४०८ ॥ तस्य घोटiकण्ठस्य चकितस्य पशोरपि । अस्य सिंहस्य चर्मेदमर्प्यतां वधसूचकम् ॥ ४०९ ॥ वाच्यश्च वाचिकमिदं स्वादुभोजनलम्पटः । निश्चिन्तो भव विश्रब्धं भुञ्जीथाः शालिभोजनम् ॥ ४१० ॥ तथेति प्रत्यपद्यन्त ते विद्याधरदारकाः । बलभद्र त्रिपृष्ठौ तु जग्मतुर्नगरं निजम् ॥ ४११ ॥ प्रणेतुः पितुः पादौ तत्र तौ भ्रातरावुभौ । बलस्तु कथयामास तमुदन्तमशेषतः ॥ ४१२ ॥ पुनर्जाताविव सुतौ मेने राजा प्रजापतिः । तेन सूनृतसन्धेन सूनुना चात्यमोदुत ॥ ४१३ ॥ तेच विद्याधरा वाजिग्रीवस्य तमशेषतः । त्रिष्पृष्ठोदन्तमाचख्युर्वज्रपातसहोदरेंम् ॥ ४१४ ॥ इतr वैतान्यगिरौ दक्षिणश्रेणिभूषणम् । नगरं रथनूपुरचक्र वालाssख्यमस्ति तत् ॥ ४१५ ॥ तत्र च ज्वलनजटी तेजसा ज्वलनोपमः । आसीदसामान्यऋद्धिर्विद्याधरनरेश्वरः ॥ ४१६ ॥ बभूव तस्य महिषी प्रीतेः परममास्पदम् । नाम्नैव वायुवेगेति हंसीव वलसा गतौ ॥ ४१७ ॥ तस्यां राइयां तस्य राज्ञः सूनुः समुदपद्यत । स्वमेर्कालोकनादर्ककीर्तिरित्यभिधानतः ॥ ४९८ ॥ प्रभाताssशेन्दुलेखाविलोकनात् । स्वयम्प्रभेत्यभिधया क्रमेण तनयाऽप्यभूत् ।। ४१९ ॥ १ 'घोटककण्ठ' इति हयग्रीवस्य पर्यायवाचकं नाम । * °काः । त्रिपृष्ठ-बलभद्रौ तु सं० ॥ २ उदन्तः- वृत्तान्तः । ३ संधा-प्रतिज्ञा । ४ सहोदरम् - तुल्यम् । सीवत् त्व० [सं० [सं० ॥ ५ सहजप्रभा० । For Private & Personal Use Only wwww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy