________________
त्रिषष्टिशलाका
पुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
॥३६३॥
उच्चपेटः प्रति सर्प मण्डूक इव दुर्मतिः। धृष्टतायाः फलमसौ प्रामोत्विति विमृश्य सः॥३९३॥ खे खेचरस्थरस्तकेसरिभ्रमदः क्षणम् । तत उत्पुच्छयमानो ददौ फालां स केसरी ॥ ३९४ ॥ तस्य चापततोऽप्योष्ठौ पाणिभ्यां स पृथक् पृथक् । संदंशाभ्यां दन्दशकस्येव जग्राह केशवः ॥ ३९५॥ एकेनौष्ठेन चाकर्षन्नेकतोऽन्येन चान्यतः। चटच्चटिति तं विष्णुः पटपाटमपाटयत ॥ ३९६ ॥ अत्रान्तरे जनैः सभ्यैरिव वैतालिकैरिव । रोद कुक्षिम्भरि रिश्चक्रे जयजयारवः ॥ ३९७ ॥ कौतुकान्मिलिता व्योग्नि विद्याधर-सुरा-ऽसुराः । मलयानिलवत् तत्र पुष्पवृष्टिं वितेनिरे ॥ ३९८॥ ते च सिंहशरीरस्य दले क्षिप्ते क्षणात् क्षितौ । परिपुस्फुरतुः कामममर्षामुक्तचेतने ॥ ३९९ ॥ महता सोऽपमानेन परतत्रशरीरकः । द्विधाभूतोऽपि हि हरिः स्फुरन्नेवमचिन्तयत् ॥ ४०॥ अहो ! प्रौढेरपि नृपैः सन्नद्धसुभटावृतैः । सास्त्रैरपि न सोढोऽसि योऽहं पविरिवापतन् ॥ ४०१॥ बालेनैकाकिनाऽनस्त्रेणामुना मृदुपाणिना । हा! हतोऽसीति खेदो मे न पुनर्वधमात्रतः ॥४०२॥ एवं च चिन्तया तस्य वेल्लंतो दन्दशूकवत् । ज्ञात्वाऽभिप्रायमित्यूचे मधुरं विष्णुसारथिः॥४०३॥ लीलानिर्भिन्नमत्तेभाऽपराभूत! चमूशतैः । मृगराज! किमेवं त्वमभिमानेन ताम्यसि॥४०४॥ अयं खलु भटप्रष्ठस्त्रिपृष्ठो नाम भारते । प्रथमः शाङ्गिणां बालो वयसा न तु तेजसा ॥ ४०५॥
, प्रसारितपाणिः । अत्र 'पाणि' शब्देन 'चपेटा-पंजो' इति भाषायाम् । २ पुच्छं ऊर्ध्व वर्तुलाकारेण प्रसारयन् । ३ भाषायाम्-'संदंश' इति 'सांडसो' इति नाम्ना प्रसिद्धं सर्पग्रहणसाधनम् । ४ वस्त्रच्छेदवत् । ५ आकाशभूम्यन्तरालपूरकः । ६ खण्डद्वयम् । ७ कम्पमानस्य । ८प्रष्ट:-अग्रणीः। ९शाह-वासुदेवः।
॥३६३॥
Jain Education Indice
For Private & Personal use only
www.jainelibrary.org,