SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ A -NCRECOGNOSAUGARCASSASSA यमौकस्तोरणमिव मुखस्योपरि दंष्टिकाम । अन्तर्वलन्महाकोपानलस्येव शिखाः सटोः॥ ३८१॥ नखांश्च प्राणिनां प्राणाकर्षणाङ्कटकानिव । लुलन्तं पुच्छदण्डं च बुभुक्षितमिवोरगम् ॥ ३८२ ॥ विद॑द् व्यात्ताननः पश्चाननो बृत्कारेदारुणः । साक्षादिव रसो रोद्रो निजंगाम गुहागृहात् ॥ ३८३॥ ॥पञ्चभिः कुलकम् ॥ अतुच्छपुच्छदण्डेन प्रचण्डेन स केसरी । भूतलं ताडयामास वज्रणेन्द्र इवाचलम् ॥ ३८४ ॥ पुच्छाच्छोटननादेन तेन नेशुः समन्ततः । सत्त्वानि तूर्यनादेन यांदांसीवान्तरम्बुधेः ॥ ३८५॥ आर्य ! तिष्ठ मयि सति योद्धं तेऽवसरो न हि । इति त्रिपृष्ठस्तत्रैवाऽवातिष्ठिपदथाञ्चलम् ।। ३८६ ॥ पदातिना रथस्थस्य युध्यमानस्य मेऽमुना । क्षत्रधर्मोचितं नैतदिति विष्णुर्जही रथम् ॥ ३८७ ॥ अत्रिणो मे निरस्त्रेण युद्धमित्यपि नोचितम् । इत्यस्त्राण्यपि तत्याज वीरव्रतधनो हरिः ॥ ३८८॥ एह्येहि भो! समिकण्डूं हरे! तव हराम्यहम् । इति त्रिपृष्ठोऽभाषिष्ट स्थामतोऽतिपुरन्दरः ॥ ३८९ ॥ तदेव वचनं सोऽपि कोपाटोपसमुत्कटः । अद्रिप्रतिरवव्याजाद् व्याजहारेव केसरी ॥ ३९०॥ स केसरियुवा चेत्थं चिन्तयामास चेतसि । अहो ! अमुष्य बालस्य भृशं रभसकारिता ॥ ३९१ ॥ विना सैन्यं यदायातः स्यन्दनाद् यदयातरत् । यच्च तत्याज शस्त्राणि यन्मामाह्वास्त चोच्चकैः ॥ ३९२ ॥ यमगृहतोरणम् । २ 'सटाः'-भाषायाम् 'सिंहकेशवाळी-याळ' इति । ३ 'अंकुटक' इति भाषायाम् 'अंकोडो' नामकम् आकर्षणसाधनम्। ४ पूर्वोक्तानि नेत्रादि-पुच्छान्तानि बिभ्रत्-धारयन् । ५गर्जनाभयङ्करः। ६ यादांसि-हिंस्राणि जकचराणि । अन्तर्-मध्ये, अम्बुधेः-समुद्रस्य । ७ युद्धरूपां कण्डूम्। ८ अद्रिप्रतिध्वनिमिषेण । ARSACARRIGANGANAGAR www.jainelibrary.org. Jain Education Intern For Private & Personal Use Only
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy