SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि. ६२ Jain Education Intern विमृश्यैवं तदा दूतान्तरेणाथ प्रजापतिम् । त्रायस्व शालिक्षेत्राणि सिंहादिति समादिशत् ।। ३५४ ॥ प्रजापतिः समाहूय कुमारावित्यभाषत । फलितं वां दुर्ललितमकाण्डे सिंहरक्षया ॥ ३५५ ॥ आज्ञा चेत् खण्ड्यतेऽकाण्डे हयग्रीवोऽन्तकायते । तदाज्ञा खण्ड्यते नो चेत् तदा सिंहोऽन्तकायते ॥ ३५६ ॥ असावुभयथाऽस्माकमपमृत्युरुपस्थितः । तथापि सिंहरक्षार्थं वत्सौं ! गच्छामि सम्प्रति ॥ ३५७ ॥ कुमारावूचतुर्ज्ञातमश्वग्रीवस्य पौरुषम् । ज्ञातो भयङ्कर इति स येन पशुना पशुः ॥ ३५८ ॥ तिष्ठ तात ! वजिष्यावो हनिष्यावोऽचिरेण तम् । सिंहं नृसिंह ! का तत्र स्वयं यात्रा तव प्रभो ! ।। ३५९ ॥ सविषादं जगादैवं प्रजापतिनृपोऽप्यथ । क्षीरकण्ठावनभिज्ञौ कृत्याकृत्येषु कर्मसु ॥ ३६० ॥ एकं तावद् कृतं कर्म तिष्ठद्भ्यां गोचरेऽपि मे । व्यालेभदुर्ललिताभ्यां भो ! भवद्भ्यां कुमारकौ ! ।। ३६१ ॥ तस्यापि कर्मणः सद्यः फलमेतदुपस्थितम् । दूरस्थौ यत् करिष्येथे तत्फलं किं भविष्यति ? ।। ३६२ । अथ त्रिपृष्ठः प्रत्यूचे केयं सिंहविभीषिका । दर्श्यते तेन बालेन बालानामिव भूभुजाम् १ || ३६३ ॥ कृत्वा तात ! प्रसाद नौ तिष्ठत्वत्रैव सम्प्रति । गत्वा सिंहं हनिष्यावः सहाऽश्वग्रीववाञ्छितैः ॥ ३६४ ॥ इत्थं कथमपि क्ष्मापं तौ प्रतीक्ष्य प्रजग्मतुः । सारस्वल्पपरीवारौ तां सिंहाध्युषितां भुवम् ।। ३६५ ॥ सिंहेन निहतानेकभटास्थीनि गिरेरधः । कुमारौ तद्यशोराशिमिव मूर्त्तमपश्यताम् ॥ ३६६ ॥ तुङ्गवृक्षाधिरूढांस्तौ शालिक्षेत्रकृषीवलान् । पप्रच्छतुरिति क्ष्मापैः सिंहोऽयं रक्षितः कथम् ॥ ३६७ ॥ १ दुखेष्टितम् । ३ क्षीरकण्ठः- बालः । २ अन्तकः- यमः तत्सदृशः । आज्ञाखण्डने हयग्रीवः यमसदृशः । आज्ञापालने कृते सिंहः यमसदृशः । ४ ब्यालेभः - उन्मत्तगजः । ५ सिंहभयम् । ६ आवाभ्याम् - आवयोरुपरि । For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy