________________
त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये
चतुर्थ पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
॥३६१॥
विस्रब्धीभव तद् राजन् ! गच्छामि विसृजाऽद्य माम् । मनागपि न कालुष्यं विद्यते मम चेतसि ॥३४१॥ इत्युक्तवन्तं तं दृतं परिरभ्य खबन्धुवत । विरचय्याञ्जलिं राजा विससर्ज प्रजापतिः॥३४२॥ ___ अश्वग्रीवान्तिकं दूतः स ययौ कतिभिर्दिनैः । तद्धर्षणकथा त्वग्रे वर्धापकपुमानिव ॥ ३४३॥ तदा हि चण्डवेगस्य त्रस्तः सर्वपरिच्छदः । त्रिपृष्टोद॑न्तमखिलं शशंसाऽऽगत्य भूपतेः॥ ३४४॥ दूतोऽद्राक्षीद् हयग्रीवमुद्रीवं रक्तलोचनम् । जगत्कवलनोयुक्तमिव वैवस्वतं स्थितम् ।। ३४५॥ मन्ये मद्धर्षणोदन्तो राज्ञो व्यज्ञपि केनचित् । दूतोऽपि निश्चिकायैवमिङ्गि-तज्ञा हि सेवकाः ॥ ३४६ ॥ राज्ञा पृष्टः स आचख्यौ वृत्तान्तमभितोऽपि तम् । उग्राणां स्वामिनां ह्यग्रे कोऽन्यथा वक्तुमीश्वरः? ॥३४७॥ स्मरन् स्वप्रतिपन्नं च दूत एवं व्यजिज्ञपत । भक्तोऽहमिव ते देव ! स्वयं राजा प्रजापतिः॥ ३४८॥ यच्चके तत् कुमाराभ्यां सा बालसुलभाज्ञता । खिद्यते त्वधिकं तेन कर्मणा स कुमारयोः॥ ३४९ ॥ अतिशेषे यथा शक्त्या त्वमशेषेषु राजसु । तथाऽतिशेते भक्त्या च प्रजापतिनृपस्त्वयि ॥ ३५०॥ कुमारदोषेणाऽऽत्मानं स गर्हति चिरं नृपः । त्वच्छासनमुपादत्ताऽदत्त चेदमुपायनम् ।। ३५१ ॥ इत्युक्त्वाऽवस्थिते दूते हयग्रीवो व्यचिन्तयत् । दृष्टैकप्रत्यया जज्ञे तस्य नैमित्तिकस्य वाक् ॥ ३५२ ॥ प्रत्ययश्चेद् द्वितीयोऽपि स सिंहवधलक्षणः । भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम् ॥ ३५३॥
विस्रब्धः विश्वासयुक्तः। २ तदपमानकथा । ३ वर्धापकः-भाषायाम् 'वधामणी देनारो मनुष्य' । ४ उदन्त:वृत्तान्तः। ५ वैवस्वतः-यमः। ६ निश्चिकाय-निश्चयं चकार । इङ्गितम्-मनोवृत्तिः। ७ स्वप्रतिज्ञामित्यर्थः। ८ अतिशयवान् असि । अतिशेते-अतिशययुक्तः वर्तते ।
SARAMERCCTRESS
|॥३६१॥
Jan Education in
For Private & Personal Use Only
www.jainelibrary.org.