SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ न धर्षितश्चण्डवेगोऽश्वग्रीवः किन्तु धर्षितः। दूता हि प्रतिरूपाणि प्रभूणां सश्चरन्त्यमी ॥ ३२७॥ न यावद् यात्यसौ तावदनुनेयः प्रयत्नतः । यत उत्तिष्ठति शिंखी निर्वाप्यस्तत एव हि ॥ ३२८ ॥ एवं विचिन्त्य पुरुषैः प्रधानस्तं महीपतिः । आनाययदनुनीय वचोभिः प्रेमपेशलैः ॥ ३२९ ।। चकार सविशेषां च प्रतिपत्तिं कृताञ्जलिः । कुमारकृतकालुष्यप्रक्षालनजलप्लतिम् ॥ ३३०॥ चतुर्गुणं महामूल्यं तस्य च प्राभृतं ददौ । प्रकोपशान्तये शीतोपचारमिव दन्तिनः ॥ ३३१॥ ऊचे च राजा यद् वेत्सि यौवनेऽभिनवे सति । कुमारका दुर्ललिताः सामान्यश्रीमतामपि ॥ ३३२॥ विशेषतो मम खामिप्रसादोद्भूतसम्पदा । निरंगलौ कुमारौ तार्वेदान्तौ वृषभाविव ॥ ३३३ ॥ बह्वेताभ्यामपराद्धं त्वयि यद्यपि मानद ! । दुःस्वममिव विमार्य तथाप्येतत् त्वया सखे ! ॥ ३३४ ॥ आवयोरक्षता प्रीतिः सदा सोदरयोरिव । त्याज्या नैकपदे साऽद्य मन्मनोवृत्तिकोविद ! ॥ ३३५॥ कुमारयोर्दुर्ललितमिदं च भवताऽनघ! । नाश्वग्रीवाय विज्ञाप्यं निकषोऽयं क्षमावताम् ।। ३३६ ॥ इति सामसुधावृष्ट्या शान्तकोपहुताशनः । चण्डवेगोऽप्युवाचैवं गिरा स्नेहादचण्डया ॥ ३३७ ॥ त्वया सह चिरात् प्रेम्णा कोपोऽपि न मया कृतः। राजन् ! क्षन्तव्यमिह किं ? त्वत्पुत्रौ न ममापरौ॥३३८॥ डिम्भानां दुर्नये दण्डो ह्युपालम्भः प्रकीर्तितः। निवेदनं राजकुले नेति लोकेऽपि हि स्थितिः॥३३९ ॥ राज्ञे विज्ञपयिष्यामि नेदक्षं त्वत्कुमारयोः । कवलः शक्यते क्षेप्तुं नाक्रष्टुं हस्तिनो मुखात् ॥ ३४०॥ १ शिखी-अग्निः । निर्वाप्यः-शमनीयः। २ प्रतिपत्तिः-आदरः। ३ निरर्गल:-स्वच्छन्दः। ४ तौ+अदान्तौ' इति । *पुरास का०॥ ५ अनघः-निर्दोषः। ६ निकषः परीक्षा। ७डिम्भा:-बालाः। Jain Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy