________________
चतुर्थ पर्व
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
॥३६०॥
SAMASSACROSAROKAR
इत्युक्त्वा मुष्टिमुद्यम्य त्रिपृष्ठः प्रपिनष्टि तम् । तावत् तावत् पुरःस्थायेत्यूचे मुशलपाणिना ॥ ३१४॥ अलमत्र प्रहारेण कुमार! नरकीटके । न चपेटा भृगालेषु क्रोशत्स्वपि मृगद्विषः ॥ ३१५॥ दूत इत्येष नो वध्यः प्रतीपान्याचरनपि । ब्राह्मण्येन द्विजन्मेव विरूपमपि हि ब्रुवन् ॥ ३१६ ॥ तदत्र संहर रुषं पुरुषे परुषेऽपि हि । दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः ॥ ३१७॥ इत्युक्तो बलभद्रेण त्रिपृष्ठो मुष्टिमुद्यताम् । करपाशं करीवाऽऽशु संहृत्येत्यादिशद् भटान् ॥ ३१८॥ जीवितव्यं विमुच्यैकं रङ्गभङ्गविधायिनः । अस्याऽपहरताऽशेषमपरं दूतपाप्मनः ॥ ३१९ ॥ तमाज्ञया कुमारस्य यष्टिभिमुष्टिभिर्भटाः । अताडयन् सारमेयं प्रविष्टमिव वेश्मनि ॥ ३२०॥ अपजहुरशेषं तत् तस्यालङ्करणादिकम् । प्रापितस्य वधस्थानं वध्यस्याऽऽरक्षका इव ॥ ३२१॥ प्रहारान् वश्चयमानः प्राणत्राणकृते चिरम् । क्रीडाकार इवेभस्य सोऽलुठत् पृथिवीतले ॥ ३२२ ॥ परितस्तत्परीवारो मुक्त्वा प्रहरणादिकम् । जीवंग्राहं पलायिष्ट भक्ष्यं सन्त्यज्य काकवत् ।। ३२३ ॥ कुट्टयित्वा रासभवश्चित्वा कलविङ्कवत् । विनी विटवत् तं तु कुमारावीयतुर्ग्रहम् ।। ३२४ ॥
विदाञ्चकार तत् सर्व जनश्रुत्या प्रजापतिः । एवं विचिन्तयामास सशल्य इव चेतसि ॥ ३२५॥ अहो! मम कुमाराभ्यां युक्तं नाऽऽचरितं ह्यदः। कस्याग्रे कथयाम्येतत् खेनाश्वेनेव पातितः ॥३२६॥
* ' स्थित्वेत्यचे संवृ०॥ मुशलपाणिः-बलदेवः। २ चपेटा-भाषायाम् 'लापोट-अडबोत' इति । ३ मृगद्विट्सिंहः। ४ ब्राह्मणत्वेन । ५ 'न+एरण्डपादपः' इति विभागः। ६सारमेयः-कुकरः। ७जीवनाई पलायिष्ट-'जीव लईने ६ भाग्यो' इति भाषायाम् । ८ कलविङ्काः-भाषायाम् 'चकलो'। ९ वाचा अपमानं कृत्वा ।
॥३६०॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org.