SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ वामात्रेण न तं तावत् पर्यस्यामोऽधुना वयम् । स्वप्रशंसेवाऽन्यनिन्दा सतां लजाकरी खलु ॥ ३०१॥ तातन्यक्कारकारं तमुत्तानशयमोजसा । छिन्नग्रीवं हयग्रीवं करिष्ये समये न्वहम् ॥ ३०२ ॥ प्राप्तकालमिदं तावत् तातेनैष विसृज्यते । यदा तदा निवेद्यं मे करोम्यस्योचितं यथा ॥ ३०३॥ सोऽनुमेने पुमान् राजविरुद्धमपि तद्वचः । राजवद् राजपुत्रोऽपि मान्यो राजानुजीविनाम् ॥ ३०४॥ निजाधिकारिणमिव समुद्दिश्य प्रजापतिम् । राजप्रयोजनान्यूचे चण्डवेगोपि कानिचित् ॥ ३०५॥ तथेति प्रतिपद्यार्थमावर्ण्य प्राभृतादिना । प्रजापतिनरेन्द्रेण चण्डवेगो व्यसृज्यत ॥ ३०६॥ स प्रीतः सपरीवारः प्रतस्थे स्वपरीं प्रति । जगाम पोतनपुरा बहिः स्यन्दनमास्थितः॥३०७॥ ज्ञात्वा त्रिपृष्ठस्तं यान्तं पुरोभृय सहाऽचलः । दवाऽनल इवाध्वन्यं सानिलो रुरुधेतराम् ॥ ३०८॥ त्रिपृष्ठ इत्यभाषिष्ट धृष्ट ! पापिष्ठ ! दुष्ट ! रे! । दूतमात्रत्वमप्याप्य राजवद् वर्तसे पशो! ॥ ३०९ ॥ सङ्गीतरङ्गभङ्गं त्वं मूर्खाऽकार्यथा तथा । अमुमपुः पशुरपि कोऽन्यः कुर्यात् सचेतनः ॥३१॥ गृहे गृहस्थमात्रस्याप्यायातो भूपतिः स्वयम् । ज्ञापयित्वा प्रविशति नीतिरेषा मनीषिणाम् ॥ ३११॥ त्वं भुवं स्फोटयित्वेवाऽज्ञातोऽकाण्डे समागमः । तातेनर्जुखभावेन सत्कृतश्चासि तन्मुधा ।। ३१२ ॥ दुर्विनीतो यया शक्त्या तां प्रकाशय सम्प्रति । इदं ते दुर्नयतरोः फलं द्राग् दर्शयाम्यहम् ॥ ३१३ ॥ आक्षिपामः। २ ताततिरस्कारकारिणम् । ३ राजभृत्यानाम्। ४ निजाधीनकर्मकरमिव । ५ संतोष्य । ६ पवन-1 सहितः दवानल इव अध्वन्यम्-पथिकम् । ७ भूतकाल-अद्यतन-द्वितीयपुरुष-एकवचनम् । ८ 'तातेन ऋजुस्वभावेन' इति विभागः । Jain Education indinal For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy