________________
चतुर्थ पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३५९॥
सर्गः
श्रेयांस जिनचरितम् ।
महत्या प्रतिपत्त्या तमुपावेशयदासने । स्वामिनो वाचिकं सर्वमपृच्छच्च स भूपतिः ॥ २८८ ॥ सङ्गीतकस्य सञ्जज्ञे भङ्गोऽकाण्डे तदागमात । आगमाध्ययनस्येव विद्युदालोकमात्रतः ॥ २८९॥ गृहं निजनिजं जग्मुः सर्वे सङ्गीतकारिणः । स्वामिनि व्यग्रचित्ते हि नावकाशः कलावताम् ॥ २९॥
तं रङ्गभङ्गकर्तारं दृष्ट्वा भृशममर्षणः । पार्श्वस्थं पुरुषं कश्चित् त्रिपृष्ठः पृष्टवानिति ॥ २९१॥ अये ! कोऽसमयज्ञोऽयं पशुः पुरुषरूपभृत् । अज्ञापितस्वाऽऽगमनः प्राविशत् तातपर्षदि ? ॥२९२ ॥ अभ्युत्तस्थौ कथं दृष्ट्वा तात एनं ससम्भ्रमः । निषिद्धश्च कथं नैष प्रविशन् वेत्रपाणिना? ॥ २९३ ॥ अथेत्थं कथयामास त्रिपृष्ठाय स पूरुषः। दुतो राजाधिराजस्य हयग्रीवस्य नन्वयम् ॥ २९४ ॥ त्रिखण्डे भरते ह्यसिन् राजानस्तस्य किङ्कराः । ततस्तस्येव दूतस्याप्यभ्युत्तस्थौ पिता तव ॥ २९५ ॥ द्वाःस्थेनापि निषिद्धस्तन्नायमौचित्यवेदिना। नेश्वाऽप्यास्कन्द्यते यस्मात् स्वामिनः किं पुनः पुमान् ? ॥२९॥ अस्मिन् प्रसादिते राजा हयग्रीवः प्रसीदति । तत्प्रसादेन राज्यानि राज्ञां नन्दन्ति सम्प्रति ॥ २९७ ॥ ___ खेलीकृतेऽवज्ञयाऽसिन् हयग्रीवः खलीभवेत् । दृतदृष्ट्यनुसारेण प्रवर्तन्ते हि भूभुजः ॥२९८॥ खलीभूते स्वामिनि हि कृतान्त इव दुःसहे । नेष्यते जीवितमपि नृपै राज्ये तु का कथा ? ॥ २९९ ॥ अभाषिष्ट त्रिपृष्ठोऽपि न जात्या कोऽपि कस्यचित् । स्वामी वा सेवको वापि शक्त्यधीनमिदं खलु ॥३०॥
१ वाचिकम्-संदेशः। २ आगमः आगमनम् । ३ सति विधुदालोके आगमस्वाध्यायनिषेधः शास्त्रे श्रूयते, स च 'असज्झाय' | नाम्ना जैनपरम्परायां प्रसिद्धः। ४ वेत्रपाणि:-द्वारपालः। ५ यस्मात् स्वामिनः-स्वामिसम्बन्धी श्वा-सारमेयः-कुक्कुरः अपि न | आस्कन्द्यते, पुमान् तु कथम् आस्कन्दनीयः । स्कन्दनम्-रोधनम् । ६ अपमानिते।
॥३५९॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org.