SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ राजाऽप्युवाच चाटुक्तिरियं भोः! न तु वास्तवम् । बलिनो यद् बलिभ्योऽपि बहुरत्ना हि भूरियम् ॥२७६॥ ततश्च तेषु कोऽप्येकः सचिवश्चारुलोचनः । वाचस्पतिरिवोवाच वाचा स्फुटयथार्थया ॥ २७७ ॥ प्रजापतिनृपस्य स्तः कुमारावमरोपमौ । मर्त्यवीरान् मन्यमानौ तृणाय सकलानपि ॥ २७८ ॥ सभां विसृज्य राजाऽथ विससर्ज प्रजापतेः । अन्तिके चण्डवेगं तं दूतमर्थेन केनचित् ॥ २७९ ॥ रथिभिः सादिभिः सारैः संसार कतिभिर्दिनैः। दूतः स पोतनपुरं स्वामितेज इवाङ्गवत् ॥ २८०॥ तत्र प्रजापतिनृपः सर्वालङ्कारभूषितः । सहाञ्चल-त्रिपृष्ठाभ्यां सामन्तैरप्यनेकशः ॥२८१ ॥ सेनापति-महामात्य-पुरोधःप्रमुखैरपि । वृतः प्रधानपुरुषैर्यादोभिरिव पार्शभृत् ॥ २८२ ॥ विचित्रचौरीकरणा-ऽङ्गहारोद्वत्तनर्तकम् । ध्वनन्मृदङ्गनिर्घोषघोषितव्योमकन्दरम् ॥ २८३ ॥ सुव्यक्तगीतोद्वारेण सञ्जीवापितवेणुकम् । विपश्चितग्राम-रागविपञ्चीरचितश्रुति ॥ २८४ ॥ तालानुसारैः प्रक्रान्तगीतसङ्गीतकं तदा । निःशङ्कं कारयन्नासीन्महर्द्धिक इवामरः ।। २८५॥ ॥पञ्चभिः कुलकम् ॥ अनिषिद्धगतिःस्थैर्वियुद्दण्ड इवोच्चकैः । तत्राऽऽस्थाने प्रविवेश चण्डवेगो झटित्यपि ॥ २८६॥ अकस्मादागतं दृष्ट्वा ससामन्तः प्रजापतिः । स्वामिवत् खामिदूतं तमभ्युदस्थात् ससम्भ्रमम् ।। २८७ ॥ वीरान् तृणतुल्यान् मन्यमानौ । २ सादिनः अश्ववाराः। ३ ससार-जगाम। ४ जलदेवरूपः वरुणः। ५ चारी४ करणं गत्या अभिनयः । अङ्गहारः शारीरिकः अभिनयः । उद्वृत्तम् प्लुतं गमनम्। ६ सञ्जीवापित०-चेतनावत्कृतः। ७ विपञ्चितः विस्तीर्णः। ८ विपञ्ची-वीणा। Jain Education Interne For Private & Personal use only allwww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy