SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३५८॥ सर्गः -SCRECRUICAUSEOCEROTECRECORDS तवाशेषजगजिष्णोरन्तकोऽप्यन्तको न हि । वराकः कोऽपरो नाम मनुष्येषु भविष्यति ॥ २६४ ॥ हयग्रीवोऽप्युवाचैवमर्थवादं विहाय भोः!। यथार्थ ब्रूहि मा भैपीनह्याप्ताश्चाटुभाषिणः ॥२६५॥ प्रथम: राज्ञैवं साग्रहं पृष्टः सोऽथ नैमित्तिकाग्रणी । लग्नादिकं विचार्येति व्याजहार स्फुटाक्षरम् ॥ २६६॥ धर्षयिष्यति यो दूतं चण्डवेगाभिधं तव । पश्चिमान्तस्थसिंहस्य यश्च हन्ता तवापि सः॥ २६७॥ श्रेयांसप्रवासी स्तनितेनेव म्लानो वाचा तया नृपः । कृत्वा कृत्रिमपूजां तं व्यसृजद् वैरिदुतवत् ॥ २६८॥ जिनराजा केसरियूनाऽथ देशे तेनोद्वंसीकृते । शालीनारोपयत् सिंहवधकज्ञानहेतवे ॥२६९ ॥ चरितम् । रक्षार्थ शालिवापानी स क्रमात् पृथिवीपतीन् । षोडशसहस्रसङ्ख्यान् निदिदेश विशांपतिः ॥ २७० ॥ गत्वा क्रमात् ते सन्नद्धा नृपाः पश्चाननात् ततः। तान् शालिक्षेत्रिणोरक्षन् गोभ्यःक्षेत्राणि गोपवत् ॥२७१॥ ___ सावहित्थमथाऽऽस्थानीमास्थाय पृथिवीपतिः। इत्यूचेऽमात्य-सेनानी-सामन्तादीन सभासदः ॥२७२॥ अधुना नृप-सेनानीप्रभृतीनां महाभुजः । कुमारः कश्चिदप्यस्ति किमसामान्यविक्रमः ॥ २७३ ॥ तेऽप्यूचुर्देव! तेजस्वी सति कस्तिग्मतेजसि ? | प्रभञ्जने क ओजस्वी ? रंहस्वी को गरुत्मति ? ॥ २७४॥ को गौरवी मेरुगिरौ ? गम्भीरः कश्च सागरे । विक्रमाक्रान्तविक्रान्ते त्वयि को नाम विक्रमी ? ॥२७५॥४॥ ॥युग्मम् ॥ . १ अन्तकः-यमः, अन्तकः-विनाशकारी। * राति सा संवृ०॥ यो हन्ता स तवापि हि संबृ०॥ २ उद्वसम्निर्जनम्, भाषायाम् 'उजड' इति । °नां क्रमेण पृथिवीपतीन् । स षोडश सहस्राणि निदि संवृ०॥ ३ पञ्चाननः | ॥३५८॥ |सिंहः। ४ अवहित्था आकारगोपनम्। ५तिग्मतेजाः सूर्यः । प्रभञ्जनः वायुः । रहस्खी वेगवान् । गरुत्मान् गरुडः। खी जवी को वा गरु° संवृ०॥ Jan Education in For Private & Personal Use Only Lalwww.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy