SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ तस्य चाऽऽक्रान्तदिक्ककं करे चक्रमलक्ष्यत । उत्पातभूतो द्विषतां द्वितीय इव भास्करः ॥२५१ ॥ हृदयस्थो विदित्वाऽस्मान् विरुद्धान् मा वधीदिति । नाभक्ति मनसाऽप्यस्य विदधुर्वसुधाधिपाः ॥ २५२॥ योगिनः परमात्मानमिव तं हृदयान्निजात् । न जातूत्तारयामासुः सर्वेऽपि पृथिवीभुजः ॥ २५३ ॥ स आघाटशिलास्तम्भीभूतवैताढ्यपर्वतम् । त्रिखण्डं भरतक्षेत्रमात्मसाँदकृतौजसा ॥ २५४ ॥ द्वे च विद्याधरश्रेण्यौ वैताढ्याद्रेर्भुजाविव । विद्यौजोभ्यां पराजिग्ये स विद्याधरपुङ्गवः ॥२५५॥ मागधेश-प्रभासेश-वरदामाधिपैरसौ । प्राभृतैरर्चयाश्चक्रे सुरैरपि नृपैरिव ॥ २५६ ॥ राज्ञां मुकुटबद्धानां सहस्राः षोडशाऽनिशम् । तच्छासनं मुकुटवद् धारयामासुरूर्जितम् ॥ २५७ ॥ एकातपत्रं साम्राज्यं भुञ्जानः स महाभुजः । अतिवाहितवान् कालं पृथ्व्यामिन्द्र इव स्थितः ॥ २५८ ॥ खच्छन्दं क्रीडतोऽन्येधुरश्वग्रीवस्य भूपतेः। अरिष्टाभ्रमिवाऽऽकाशेऽकाण्डे चिन्तेति हृद्यभूत् ॥२५९ ॥ ___ अपागभरतवर्षार्धे ये केपि वसुधाभुजः। मद्भजस्थाम्नि तेऽमजन्नम्भोधौ भूधरा इव ॥ २६० ॥ पृथिव्यामेकमल्लस्य तस्यापि वधको मम । मृगेष्विव मृगेन्द्रस्य को राजसु भविष्यति ? ॥ २६१॥ दुर्ज्ञानमेतदथवा ज्ञास्यामीति विमृश्य सः। अश्वबिन्दु निमित्तझं द्वाःस्थेनाऽऽजूहवत् क्षणात् ॥ २६२॥ राज्ञा खवचनं पृष्टः स तु नैमित्तिकोऽवदत् । शान्तं पापं प्रतिहतममङ्गलमिदं वचः॥ २६३ ॥ १ अभक्तिः अनादरः । २ आघाटः सीमा। ३ आत्मसात्-अधीनम्-अकृत ओजसा-इति विभागः। ४ ओजः शूरता। ५ पराजयं प्राप । ६ उपद्रवजनकम् अभ्रम् । ७ अनवसरे । ८ स्थाम शीर्यम्। ९ अमजन्-बुडिताः। * मृगेष्वपि मृ संवृ०॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy