SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ 44 त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये चतुर्थ पर्व प्रथमः सर्गः प्राडयाऽपि प्रचलतान्नोऽपि नृदन्ति श्रेयांस जिन ॥३५७॥ । वेल्मीकन्ति से चरितम् । क्रमेण कवचहरो दृढोरस्को महाभुजः । बभूव बलभद्रस्य सवया इव सोऽनुजः ॥ २३८ ॥ असञ्जातान्तरौ नित्यं क्रीडन्तौ भ्रातरावुभौ । बभ्राजाते मूर्तिमन्तौ पक्षाविव सिता-सितौ ॥ २३९॥ नील-पीताम्बरधरौ तौ ताल-गरुडध्वजौ । अशोभेतां स्वर्णशैला-ऽञ्जनाद्री इव जङ्गमौ ॥ २४०॥ क्रीडयाऽपि प्रचलतोस्तयोरचल-कृष्णयोः। पादन्यासर्वज्रपातैरिवाऽकम्पत मेदिनी ॥ २४१॥ तयोरारूढयोः प्रौढदन्तिनोऽपि नृदन्तिनोः । कुम्भस्थले करतलाऽऽस्फाललीलां न सेहिरे ॥ २४२ ॥ ताभ्यां पर्यस्यमानानि क्रीडया दोभिरुर्जितैः । वैल्मीकन्ति म शृङ्गाणि महाशिखरिणामपि ॥ २४३॥ दैत्यादिभ्योऽपि निर्भीकावितरेभ्यस्तु का कथा? । तौ कुमारावजायेतां शरण्यं शरणार्थिनाम् ॥ २४४॥ विनाऽचलं न त्रिपृष्ठो न त्रिपृष्ठं विनाऽचलः । एकात्मानौ द्विशरीराविव तौ सह चेरतुः ॥ २४५॥ __ इतश्चाऽऽसीत् पुरे रत्नपुरे नीलाञ्जनाप्रमः । प्रतिविष्णुरश्वग्रीवो मयूरग्रीवनन्दनः ॥ २४६ ॥ सोऽशीतिधनुरुत्तुङ्गो नवनीधरच्छविः । चतुरशीत्यब्दलक्षप्रमितायुर्महाभुजः ॥ २४७॥ तस्य दोर्दण्डयोः कण्डूर्नाऽशाम्यद् वैरिकुट्टनैः । सिंहस्येव महाँकुम्भिकुम्भस्थलविपाटनैः ॥ २४८॥ महौजाः स महाबाहुर्महाहवंकुतूहली । पिप्रिये न तथा ननैयुध्यमानैर्यथाऽरिभिः॥ २४९॥ नित्यं नेत्रारविन्दानामश्रुवृष्टिं प्रवर्तयन् । तत्प्रतापोऽरिनारीपु वारुणास्त्रमिवाऽभवत् ।। २५० ॥ कवचहर:-कवचहरणसमर्थः । २ शोभितौ स्तः। ३ प्रौढगजाः । दन्ती-गजः, नररूपदन्तिनोः। ४ परिक्षिप्यमाणानि । Cli५ वल्मीकसदृशानि भवन्ति । वल्मीकम्-भाषायाम् 'बांबी-राफडो' इति । ६ प्रसूः-पुत्रः। नीरधरो मेघः। छविः कान्तिः । MIC कुम्भी-गजः। ९ आहवः-समराङ्गणम् । १० पिप्रिये-प्रसन्नता प्राप्तः । ॥३५७॥ Jain Education Intern For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy