________________
PROGREADCCCCCESCORRY
उद्बुद्धया तयाऽऽख्यातान् स्वमान् व्याख्यन्महीपतिः। अर्धचक्री तव सूनुनूनं देवि! भविष्यति ॥२२५॥ राज्ञा सद्यः समाहूय पृष्टा नैमित्तिका अपि । स्वमांस्तथैव व्याचख्युर्विसंवादो न धीमताम् ॥ २२६ ॥ पूर्णे काले च सा देवी सर्वलक्षणलक्षितम् । अशीतिधनुरुत्तुङ्गं कृष्णाङ्गं सुषुवे सुतम् ॥ २२७ ॥ प्रससाद ककुपचक्रमुल्ललास वसुन्धरा । जहर्ष च जनः सर्वस्तस्येव नृपतेर्मनः॥२२८॥ कारागारात् पुरा बद्धान् गोपो गा इव वाटकात् । हृष्टो रिपूनपि रिपुप्रतिशत्रुरथामुचत् ॥ २२९ ॥ यथाकामं ददौ सोऽर्थानर्थिभ्यः कामधेनुवत् । कतुं स्थानमिवैष्यन्त्या अर्धचक्रधरश्रियः॥२३०॥ तथाऽभूदुत्सवः प्राज्यो जने तस्मिन् निरन्तरः । यथा सपुत्रजन्मेव सोद्वाह इव सोऽभवत् ॥ २३१ ॥ मङ्गल्यपाणयो नार्यो ननृतू राजवेश्मनि । मिथः सङ्घर्षतो ग्रामागमाश्लेषपराः पुरः ॥ २३२॥ स्थाने स्थाने तोरणानि सङ्गीतानि पदे पदे । अजायन्त पुरे तस्मिन्नभितो राजवेश्मवत ॥ २३३ ॥ दृष्ट्वा वंशत्रयं पृष्ठे त्रिपृष्ठ इति भूपतिः। नाम तस्याकरोत सूनोरुत्सवेन महीयसा ॥ २३४ ॥ लाल्यमानः स धात्रीभी रम्यमाणोऽचलेन च । वासुदेव स्त्रिपृष्ठाख्यो व्यवर्धत शनैः शनैः ॥ २३५॥ स बालो बलभद्रेण प्रवणत्पादघेरिः । अग्रेसरेण चिक्रीड प्रतिकारेण हस्तिवत ॥ २३६ ॥ लीलयैव महाप्राज्ञः स उपाध्यायसाक्षिकम् । प्रतिविम्बमिवाऽऽदर्शो जग्राह सकलाः कलाः ॥ २३७ ॥
ककुपचक्रम्-दिशामण्डलम् । * °चक्रं प्रापोच्छासं वसु संबृ० ॥ २ वाटकः-भाषायाम् 'वाडो'। ३ पुत्रजन्मसहित इव, विवाहसहित इव । उदाहः विवाह । ४ पृष्ठम्-भाषायाम् 'पीठ' 'वांसो' । अयं समनः श्लोकः 'यदवोचाम' इत्युल्लिख्य अक्षरशः समुदतः आचार्य हेमचन्द्रेण अभिधानचिन्तामणिकोशस्वोपज्ञटीकायाम् कां०३ श्लो० ३५९ पृ. २७९ । ५ घरि:| भाषायाम् 'घुघरी'। ६ आदर्श:-भाषायाम् 'अरिसो'-दर्पण ।
Jain Education inte
For Private & Personal use only
___www.jainelibrary.org