SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ चतुर्व पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये ॥३५६॥ सगे: श्रेयांसजिनचरितम् । कुलीनैः सचिवैरात्मरक्षैर्दासजनैर्वृताम् । मूर्त्तामिव पुरीदेवीं मातरं तत्र सोऽमुचत् ॥ २११ ॥ भद्रापि स्त्रीशिरोरत्नं शीलालङ्करणा सती । देवपूजादिषट्कर्मरता तस्यामवास्थित ॥ २१२ ॥ भक्तिमान् बलदेवोऽपि तत् पोतनपुरं ययौ । यादृशस्तादृशो वाऽपि पूजनीयः पिता सताम् ॥२१३॥ शुश्रूषमाणः पितरं पूर्ववत् तत्र चाऽचलः । तस्थौ न पूज्यचरितं चर्चयन्ति मनीषिणः॥ २१४॥ राजाऽपि स्थापयामास तामग्रमहिपीपदे । मृगावती मुंगदृशं मृगलक्ष्मेव रोहिणीम् ।। २१५॥ कियत्यपि गते काले महाशुक्रात् परिच्युतः। विश्वभूतिमुने वस्तस्याः कुक्षाववातरत् ॥ २१६॥ यामिन्याः पश्चिमे यामे सूचका विष्णुजन्मनः । देव्या ददृशिरे स्वमाः सप्तैते सुखसुप्तया ॥ २१७ ॥ तत्राऽऽदी केसरियुवा कुकमारुणकेसरः । इन्दुलेखानिभनखश्चमरोपमबालधिः ॥२१८॥ कुञ्जराभ्यां पूर्णकुम्भहस्ताभ्यां क्षीरवारिभिः । क्रियमाणाभिषेका च पद्मा पद्मासनस्थिता ॥ २१९ ॥ ध्वंसमानो महाध्वान्तं दोषाऽपि जनयन्त्रहः । उदण्डतेजःप्रसरस्त्विषामधिपतिस्ततः ॥ २२०॥ स्वच्छ-स्वादुपयःपूर्णः पुण्डरीकार्चिताननः । सौवर्णघण्टिकः पुष्पमाली कुम्भस्ततोऽपि च ॥ २२१॥ नानाजलचराकीर्णो रत्नसम्भारभासुरः । गगनोदश्चिकल्लोलस्ततः कल्लोलिनीपतिः ॥ २२२ ॥ पञ्चवर्णमणिज्योतिःप्रसरेगेगनाङ्गणे । विपश्चितेन्द्रचापश्री रत्नानां सश्चयस्ततः॥ २२३॥ धूर्मध्वजच निधूमो ज्वालापल्लविताम्बरः। दृशोः सुखंकरालोकः सप्तमश्चेति सप्तं ते ॥ २२४ ॥ १ आकारधारिणी नगरीदेवीमिव । * मृगनेत्रां मृ संकृ॥ २ मृगलक्ष्मा-चन्द्रः। ३ दोषा-रात्रिः। ४ स्विद-कान्ति:, तदधिपतिः सूर्यः। ५ घण्टिका-भाषायाम् 'घंटडी'। ६ उदबी-ऊर्ध्वगामी। विपञ्चितम्-विस्तीर्णम् । ८ धूमध्वजा-अग्निः । ९अम्बरम्-गगनम्। सुखाक संवृ०॥ सप्तके संवृ.॥ ॥३५६॥ Jain Education in For Private & Personal Use Only
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy