SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ सुलभं भूमिसाम्राज्यं स्वर्गसाम्राज्यमप्यहो! । इयं तु दुर्लभा मन्ये बाला हृदयवल्लभा ॥१९६ ॥ सुरा-ऽसुर-नरेन्द्राणां पुण्येभ्योऽप्यतिशायिभिः । उपस्थितेयं मे पुण्यैर्जन्मान्तरशतार्जितैः ॥ १९७॥ एवं विचिन्त्य नृपतिः प्रियालापपुरःसरम् । अङ्कमारोपयामास तां सद्यः प्राणवल्लभाम् ॥ १९८॥ अनुरागे स आरोप्य स्पर्शा-ऽऽलिङ्गन-चुम्बनैः। तां जरत्कनुकिवरैरन्तःपुरमनाययत् ।। १९९ ॥ पौरलोकान् समाहूय सह प्रकृतिभिस्ततः । लोकापवादरक्षार्थमपृच्छत् पृथिवीपतिः ॥२०॥ मदीयभूमौ ग्रामेषु पुरेष्वन्यत्र वा क्वचित् । यत् समुत्पद्यते रत्नं तत् कस्येति निवेद्यताम् ॥ २०१॥ लोकोऽप्यूचे भवद्भूमौ यद् रत्नं जायते क्वचित । तस्य स्वामी भवानेव नान्यो भवितुमर्हति ॥ २०२॥ इति तं निर्णयं स त्रिर्गृहीत्वा पृथिवीपतिः। तेषां द्राग् दर्शयामास निजकन्यां मृगावतीम् ॥ २०३ ॥ इत्युवाच च तान् भूयः कन्यारत्नमिदं हि मे । इदानीं परिणेष्यामि स्वयं युष्मदनुज्ञया ॥२०४॥ इत्युक्ते लञ्जिताः पौरा ययुर्निजनिजं गृहम् । गान्धर्वेण विवाहेन पर्यणैषीच्च तां नृपः ॥२०५॥ खसुतायाः पतिरभूत् तेन तस्य महीपतेः । नाम प्रजापतिरिति पप्रथे पृथिवीतले ॥ २०६॥ नवं कुलकलङ्क तं हसनीयं जनेखिले । महालजाकरं पत्युः श्रुत्वा भद्राऽत्यलज्जत ॥ २०७॥ सहाऽचलेन पुत्रेण साऽचालीद् दक्षिणापथे । श्रेयान् स देशो नो यत्र श्रूयन्ते दुर्जनोक्तयः ॥२०८॥ मातुः कृते दक्षिणस्यां विश्वकर्मेव नूतनः । माहेश्वरीति नगरीमस्थापयदथाऽचलः॥२०९ ॥ तां च श्रीद इवाऽयोध्यामाहृत्याऽऽहृत्य सर्वतः । हिरण्यैः पूरयामास बलदेवोऽचलाभिधः ॥ २१०॥ १ जरत्कञ्चुकिनः-वृद्धकञ्जुकिनः; कञ्चुकी-अन्तःपुररक्षकः । २ प्रकृतिः प्रधानमण्डलम् । ३ अयोध्यानगरीम् । त्रिषष्टि. ६१ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy