SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते महाकाव्ये ।। ३५५ ।। Jain Education Internat अङ्काद सञ्चरन्ती तापसानां मृगीव सा । वृद्धिमासादयामास निष्प्रत्यूहं मृगेक्षणा ॥ १८३ ॥ तया कटिस्थया धात्र्यो विचरन्त्यो गृहाङ्गणे । गृहस्थूणा इव रत्नशालभञ्ज्यश्चकाशिरे ॥ १८४ ॥ बाल्यं क्रमेण लङ्घित्वा प्रपेदे साथ यौवनम् । स्मरोजीवनजीवातु वपुर्लक्ष्मीविशेषकम् ॥ १८५ ॥ तस्या वक्रं दन्तपैत्रमिवेन्दो भ्रूलताच्छलात् । नेत्रे च कृष्णधवले सभृङ्गे इव कैरवे ।। १८६ ॥ कण्ठश्च लटभो नालमित्र वक्रसरोरुहः । पश्चेषोरिव तूणीरौ पाणी च सरलाङ्गुली ॥ १८७ ॥ वपुर्लावण्यसरितश्चक्रवाकाविव स्तनौ । मध्यं कृशतरं भूरि स्तनभारश्रमादिव ॥ १८८ ॥ क्रीडावापी स्मरस्येव नाभिर्गाम्भीर्यशालिनी । तटी रत्नाचलस्येव श्रोणिभित्तिर्गरीयसी ॥ १८९ ॥ ऊरू च कदलीस्तम्भविभ्रमौ क्रमवर्तुलौं । पादौ सरलजङ्घाकावुन्नालेंनलिने इव ॥ १९० ॥ एवं विभक्तावयवा नव्यया यौवनश्रिया । अपि विद्याधरस्त्रीणामधिदेवीव साऽशुभत् ॥ १९९ ॥ यौवनश्री वर्धिष्ट मृगावत्या यथा यथा । भद्राया ववृधे चिन्ता तद्वरार्थे तथा तथा ॥। १९२ ॥ चिन्ता ममेव राज्ञोऽपि वरार्थेऽस्यां भवत्विति । तां प्रास्थापयदन्येद्युर्भद्रादेवी तदन्तिके ॥ १९३ ॥ स्मरेषु जातवैधुर्यात् तां पुत्रीत्यविदन्निव । विचिन्तयामास रिपुप्रतिशत्रुरिदं हृदि ॥ १९४ ॥ अहो ! किमपि सौन्दर्य जैत्रमस्त्रं मनोभुवः । जगत्रयस्त्रैणजयलीला दुर्ललितं तनोः ॥ १९५ ॥ १ निष्प्रत्यूहम् - निर्विघ्नम् । २ स्थूणा स्तम्भः । शालिभञ्जी - पुत्तलिका । ३ जीवातुः - जीवनौषधम् । ४ विशेषकम् - तिलकम् । ५ इन्दो: दन्तपत्रम्, भाषायाम् दांतियो । ६ भ्रमरसहिते । ७ लटभः सुन्दरः । ८ नालम् कमलदण्ड इव । ९ 'पाणी' प्रथमाद्विवचनम् । १० श्रोणिः -कटिः । ११ क्रमेण गोलाकारौ । १२ उन्नाल नलिने ऊर्ध्वनायुक्ते कमले । नालम् - कमलदण्डः । १३ विजयकारि । १४ स्त्रैणम् - स्त्रीसमूहः । * जये युवत्या ललि' संबृ० । 'जये अस्या दुर्ल० सं० ॥ For Private & Personal Use Only चतुर्थ पर्व प्रथमः सर्गः श्रेयांस जिन चरितम् । ।। ३५५ ।। ww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy