SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका द्वितीयं पर्व प्रथमः सर्ग: अजित पुरुषचरिते ॥१८२॥ नाथ चरितम् । __अनुज्ञावचनैस्तेषां, मुदितो मेदिनीपतिः । शीघ्रमाह्वाययामास, कुमारं वेत्रधारिणा ॥ १७१॥ सलीलचरणन्यासं, कुर्वाणो राजहंसवत् । मूर्त्या देवो मार इव, कुमारोऽपि समाययौ ॥१७२॥ प्रणम्य नृपतिं भक्त्या, स पत्तिपरमाणुवत् । निषसाद यथास्थानं, तस्थौ च रचिताञ्जलिः ॥ १७३ ॥ अभिषिञ्चन्निव दृशा, पीयूपरससारया । पश्यन् कुमारं सानन्दं, व्याजहारेति भूपतिः ॥ १७४॥ - अस्मद्वंश्या नृपाः पूर्वेऽप्युर्वीमेतामपालयन् । अंगृनवो दयाबुद्ध्या, गामिवैकाकिनी वने ॥ १७५ ॥ क्षमीभूतेषु पुत्रेषु, क्षमाभारं क्रमेण ते । स्वयमारोपयामासुधौरेयवृषभेष्विव ॥ १७६ ॥ आतिष्ठमानाः सकलमप्यनित्यं जगत्रये । उत्तस्थिरे स्वयं तसै, शाश्वताय पदाय ते ॥ १७७ ॥ इयत्कालं न कोऽप्यस्थाद् , गृहवासेऽस्सदादिमः । अहो ! गार्हस्थ्यमूढस्य, प्रमादोऽभूत् कियान्मम?॥१७८॥ राज्यभारं गृहाणेमं, ग्रहीष्यामो वयं व्रतम् । भवाम्भोधिं तरिष्यामो, निर्भारा भवता कृताः ॥ १७९ ॥ तया नृपगिरा म्लायन , हिमेनाऽम्भोजकोशवत । उदस्रनेत्रकमलः, कुमारोऽप्येवमब्रवीत् ॥ १८॥ अकाण्डेऽप्यप्रसादोऽयं, देव ! केनाऽऽगसा मम । पदातिमानिनि मयि, स्वामिन् ! यदिदमादिशः ॥१८॥ अपराधः कृतः कोऽपि, किंवा वसुधयाऽनया ? । चिरत्रातापि तृणवद् , यदियं त्यज्यतेऽधुना ॥१८२॥ तातपादेविना तात!, राज्येनाऽपि कृतं मम । पूर्णेनाऽप्यब्जहीनेन, सरसा भ्रमरस्य किम् ॥१८३॥ प्रतिकूलमहो! देवमहो! मे मन्दभाग्यता । तातो यदादिशत्येवं, त्यजन् मामिह लोष्ठवत् ॥ १८४॥ अहमेतां ग्रहीष्यामि, कथश्चिदपि नो महीम् । प्रायश्चित्तं चरिष्यामि, गुर्वादेशव्यतिक्रमे ॥ १८५॥ कामदेवः । २ अनासक्ताः। ३ गुर्वाज्ञाया उल्लङ्घने । पूर्वभवचारते प्रथमो विमक| वाहनभवः। ॥१८२॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy