________________
पाशन्ति भवकारायां खजनस्नेहतन्तवः । जन्तवस्तैर्हि मुह्यन्ति लालाभिरिव मर्कटाः ॥१४४॥ किश्चिन्नातः परं वाच्यश्चरिष्यामि तपः परम् । परलोके सह याति सहायीभूय तत् खलु ॥१४५॥ इति तेनोदिते राजा सानुतापो ययौ गृहम् । विश्वभूतिर्मुनिरपि व्यहाद् गुरुणा सह ॥ १४६ ॥ षष्ठा-ऽष्टमादिनिरतो गुरुशुश्रूषणोद्यतः । क्रमात् सोऽधीतसूत्रार्थो भूयांसं कालमत्यगात् ॥ १४७॥ गुरोरनुज्ञयैकाकिविहारप्रतिमाधरः। स विहर्तुं प्रववृते ग्रामा-ऽऽकर-पुरादिषु ॥ १४८॥ विविधाभिग्रहपरो विहरनेकदा च सः । विश्वभूतिर्महासाधुर्जगाम मथुरां पुरीम् ।। १४९॥ पैतृष्वस्रयीमुद्वोढुं मथुराराजकन्यकाम् । विशाखनन्दी तत्राऽऽगात् तदा च सपरिच्छदः॥१५०॥8 विश्वभूतिश्च मासान्तपारणाय परिभ्रमन् । विशाखनन्दिशिबिरं निकपा समुपाययौ ॥१५१॥ विशाखनन्दिने यान्तं पुरुषास्तमदर्शयन् । विश्वभूतिकुमारोऽसाविति व्याहारिणो मुहुः ॥१५२॥ विशाखनन्दिनो रोषः सद्यस्तदर्शनादभत । गवैकया च पर्यस्तो विश्वभूतिस्तदाऽपतत् ॥ १५३॥ विशाखनन्दी हसित्वा विश्वभूतिमदोऽवदत । कपित्थपातनं स्थाम तत् क्वेदानीमहो! गतम् ॥१५॥ विशाखनन्दिनं दृष्ट्वा विश्वभूतिरैमर्षणः । गृहीत्वा शृङ्गयोस्तां गां भ्रमयामास पूलवत् ॥ १५५ ॥ | ततो निवृत्तो दध्यौ च विश्वभूतिरिदं हृदि । मय्यद्यापि सरोषोऽयं निःसङ्गेऽपि हि दुर्मनाः॥१५६॥
१ बन्धनरूपा भवन्ति । २ लाला भाषायाम् 'लाळ' इति । 'मर्कट' इति भाषायाम् करोळियो। ३ पितृष्वसुः पुत्रीम् । पितृवसा भाषायाम् 'फई' इति । ४ समीपम् । ५पर्यस्तः-आघातं प्रापितः । ६ स्थाम-पराक्रमः। ७ अमर्षणः असहनशीलः। ८ पूल: भाषायाम् 'पूळो' इति ।
Jan Education inte
For Private & Personal Use Only
( 6
www.jainelibrary.org.