SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ चतुर्थ पर्व प्रथमा त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सर्गर श्रेयांसजिनचरितम् । ॥३५३॥ विशाखनन्दी मध्येऽस्तीत्युदित्वा वेत्रपाणिना । वारितः स तथैवाऽस्थान्मर्यादा-स्थामवारिधिः ॥१३१॥ दध्यौ चैवं विश्वभूतिस्तदाऽहममुतो वनात । वनद्विप इवाऽऽकृष्टश्छद्मना ही! करोमि किम् ॥१३॥ एवं कुमारः कुपितः कपित्थं फलमालिनम् । मुष्टिना ताडयामास दन्तेनेव मतङ्गजः॥१३३ ॥ कपित्थैः पातितैश्छन्नां परितस्तदधोभुवम् । प्रदर्शयन् विश्वभूतिस्तमूचे वेत्रधारिणम् ॥ १३४ ॥ इत्थङ्कारं पातयामि सर्वेषां वः शिरांस्यपि । यदि ज्यायसि मे ताते भक्तिर्न ह्यन्तरा भवेत् ॥ १३५ ॥ यदर्थ वचनोपाय एवं हन्त ! प्रवर्तते । तदलं मम तैोंगीपणैर्भोगिंभोगवत् ॥ १३६ ॥ एवमुक्त्वा विश्वभूतिर्विभूतिं तृणवजहौ । सम्भूतमुनिपादान्ते गत्वा च व्रतमाददे ॥ १३७ ॥ तच्च श्रुत्वा विश्वनन्दी सान्तःपुरपरिच्छदः। सहितो युवराजेन स्वयं तत्र समाययौ ॥ १३८॥ सूरिपादान् नमस्कृत्य विश्वभूतिमुपेत्य च । विश्वनन्दी निरानन्दः सगद्गदमदोऽवदत् ॥ १३९ ॥ अस्मानापृच्छथ सर्व त्वमकार्वत्स! सर्वदा । सहसा कृतवानेतत् किमस्मद्भाग्यसनयात् ॥१४॥ त्वय्याशा राज्यधरणे ताताऽस्माकं सदैव हि । अकाण्डे किमेभाजीस्तां त्वं त्राता व्यसनेषु नः॥१४१॥ मुश्चाऽद्यापि व्रतं वत्स ! भुङ्ग भोगान् यदृच्छया । रमख खैरमुद्याने प्राग्वत् पुष्पकरण्डके॥१४२॥ विश्वभूतिरथावोचदलं मे भोगसम्पदा । सुखं वैषयिकमिदं वस्तुतो दुःखमेव हि ॥ १४३ ॥ १ वेत्रपाणिः-द्वारपालः। २ मर्यादायाः स्थानः-पराक्रमस्य च समुद्रः। ३ फलशोभितं कपित्थवृक्षम् , भाषायाम् 'कमित्य' इति 'कोहुँ'। भोगी-सर्पः भोगः-फणा। ५ भनां चकार । ६ विलासं कुरु । ॥३५३॥ Jain Education in For Private & Personal Use Only W w w .jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy