SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते महाकाव्ये ३५२॥ चतुर्य पर्व प्रथमः सर्गः श्रेयासजिनचरितम् । विश्वनाथेन सह च सहस्रमवनीभुजः। राज्यं तृणवदुत्सृज्य समुपाददिरे व्रतम् ॥ १०३॥ शाश्वतार्हत्प्रतिमानां कुर्वन्तोऽष्टाह्निकोत्सवम् । सुरा-ऽसुराधिपतयः खं खं स्थानं ततो ययुः॥१०४॥ द्वितीयेऽहनि सिद्धार्थपुरे नन्दनृपौकसि । पारणं परमान्नेन चकार परमेश्वरः ॥ १०५॥ अमरेवंसुधारादिपञ्चकं विदधे ततः। रत्नपीठं स्वामिपादस्थाने नन्दनृपेण तु ॥१०६॥ ततः स्थानादथ स्वामी ग्रामा-ऽऽकर-पुरादिषु । अप्रतिबद्धो विहाँ प्रावर्तत समीरवत् ॥ १०७॥ __ इतश्च पुण्डरीकिण्यां प्राग्विदेहशिरोमणौ । पुर्यभूत् सुबलो राजा स महीं चिरमन्वशात् ॥१०८॥ पार्श्वे मुनिवृषभर्षेः प्रव्रज्य समये च सः। तपस्तत्वा च मृत्वा च विमानेऽनुत्तरे ययौ ॥१०९॥ इतः पुरे राजगृहे विश्वनन्दिमहीपतेः । पन्यां प्रियङ्गौ विशाखनन्दी नाम सुतोऽभवत् ॥११॥ विश्वनन्दिनरेन्द्रस्यावरजो युवराडभृत् । विशाखभूतिर्मतिमान् वीर्यवान् विनयी नयी ॥ १११॥ विशाखभूतेर्भार्यायां धारिण्यां तनयोऽभवत् । मरीचिजीवः सुकृतैरनन्तरभवार्जितैः ॥ ११२॥ विश्वभूतिरिति नाम पितरौ तस्य चक्रतुः । धात्रीजनाल्यमानो व्यवर्धिष्ट क्रमाच्च सः॥ ११३ ॥ कलाकलापं सोऽध्यैष्ट प्रपेदे सकलान् गुणान् । अङ्गस्य मूर्त्तनेपथ्यं क्रमात् प्राय च यौवनम् ॥ ११४ ॥ सान्तःपुर: स चिक्रीडोद्याने पुष्पकरण्डके । मनोज्ञतरुभूयिष्ठे भूमिष्ठ इव नन्दने ॥ ११५॥ १ समीर:-पवनः। २ पुरि+अभूत्। *इतवाऽऽसीद राजगृहे विश्वनन्दीति भूपतिः। विशाखनन्दी तत्पत्यां | प्रियङ्गो तनयोऽभवत् ॥ संवृ०॥ ३ लघुबन्धुः युवराड् अभूत् । ४ भरतपुत्रस्य मरीचे वः । तस्य कथा प्रथमपर्वणि वर्णिता। ५ आकारयुक्तं नेपथ्यम् । त्रिपृष्ठवासुदेव-अचकबलदेवादीनां चरितम् ॥३५२॥ Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy