________________
पर्वतायुर्भवेत्याशीःपूर्वकं खामिकर्णयोः । ताः समास्फालयामान रनपाषाणगोलकौ ॥ ६१ ॥ अहंदर्हजनन्यौ तास्ततः सूतिगृहेऽनयन् । तयोरनतिरेऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥ ६२॥
अथ शक्रः समागत्य स्वामिनः सूतिकागृहम् । पालकेन विमानेन प्रदक्षिण्यकृत द्रुतम् ॥६३॥ ऐशान्यां पालकं मुक्त्वा सूतिवेश्म प्रविश्य सः । अर्हन्तमर्हदम्बां च नमश्चक्रे पुरन्दरः ॥ ६४ ॥ दत्वाऽवस्वापिनी देव्याः पार्श्वर्हत्प्रतिरूपकम् । विन्यस्साथ विचके स पञ्च रूपाण्यथाऽऽत्मनः ॥६५॥ एकेन प्रभुमुद्धृत्य च्छत्रमन्येन चामरे । अन्याभ्यां वज्रं चान्येन पुरोरूपेण सोऽचलत् ॥६६॥ क्षणान्मेरावतिपाण्डुकम्बलामासदच्छिलाम् । शक्रः सिंहासने तत्राऽऽसाञ्चक्रेऽङ्कस्थितप्रभुः ॥६७॥ अथाऽच्युतप्रभृतयः कल्पेन्द्रा नव ते तथा । इन्द्रा भवनपतयो विंशतिश्चमरादयः॥ ६८॥ द्वात्रिंशद् व्यन्तराधीशाः कालप्रभृतयोपि च । सूर्या-चन्द्रमसाविन्द्रौ ज्योतिष्काणामुभौ पुनः॥६९॥ इति त्रिषष्टिस्तत्रेयुर्जन्मस्त्रात्रकृते प्रभोः। विचक्रुः पूर्णकुम्भादीन्द्राज्ञयाऽथाऽऽभियोगिकाः ॥७॥ अथाऽच्युतप्रभृतयः सर्वेऽपीन्द्रा यथाक्रमम् । स्वामिनः स्वपनं चक्रुः पवित्रैस्तीर्थवारिभिः ॥ ७१॥ अथेशानपतेरङ्के शको न्यस्य जगत्पतिम् । विचके दिक्कतुष्केपि चतुरः स्फाटिकान् वृषान् ॥ ७२ ॥ तेषां शृङ्गोद्गतैरन्ते मिलित्वा विनिपातिभिः । स्वामिनं स्त्रपयामास शक्रः शुचिभिरम्बुभिः॥७३॥ संहृत्य स्फाटिकानुक्ष्णः कृत्वा चर्चादिकं प्रभोः । उत्तार्याऽऽरात्रिकं चेति स्तोतुं शक्रः प्रचक्रमे ॥७४॥ * त्वाऽपस्वा संवृ०॥ १ प्रतिरूपकम्-प्रतिबिम्बम्-प्रतिमाम् । २ पूर्गकुम्भादि इन्द्राज्ञया इति सन्धिविश्लेषः । मि संवृ०॥ ३ पतद्भिः। ४ स्फटिकमयान् वृषभान् ।
।
Jain Education Intonas
For Private & Personal use only
|www.jainelibrary.org