SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ चतुर्थं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सगे: श्रेयांसजिनचरितम् । ॥३५ ॥ धृत्वा दर्पण-भृङ्गार-व्यजन-श्वेतचामरान् । पूर्वादिदिक्क्रमेणास्थुर्गायन्त्यः स्वामिनो गुणान् ॥५०॥ ॥त्रिभिर्विशेषकम् ॥ चतत्र एत्य चित्राद्या रुचकस्य विदिग्भवाः । तद्वन्नत्वा विदिश्वस्थुर्गायन्त्यो दीपपाणयः॥५१॥ चतस्रो रुचकान्तस्था रूपाद्या दिकुमारिकाः । अर्हन्तमर्हदम्बा च नत्वा खंज्ञप्तिपूर्वकम् ॥ ५२॥ चतुरङ्गुलकोत्कर्ष स्वामिनालमखण्डयन् । खनित्वा विदरं तत्र निचख्नुस्तच तत्क्षणात् ॥ ५३॥ ॥ युग्मम् ॥ विदेर वज्ररत्नस्तदाऽऽपूर्योपरि तस्य च । बबन्धुर्निबिडं पीठं दुर्वया द्रागपूर्वया ॥५४॥ सूतिकावेश्मनस्तस्य चक्रुस्तिसृषु दिक्षु ताः । सिंहासनचतुःशालवन्ति रम्भागृहाणि च ॥५५॥ हस्तेऽर्हन्तं गृहीत्वाऽर्हन्मातरं च भुजे तथा । अपारम्भागृहचतुःशालसिंहासने न्यधुः ॥५६॥ शतपाकादिभिस्तैलैरुभावभ्यज्ये तत्र ताः। गन्धद्रव्यैः सूक्ष्मपिष्टैः सुस्पर्शमुदवर्तयन् ॥ ५७॥ प्राच्यरम्भागृहचतुःशालसिंहासने ततः। तौ न्यस्याऽस्लपयन् गन्ध-पुष्प-शुद्धोदकैश्च ताः॥५८ ॥ ततस्ताः परिधाप्योभौ वस्त्रा-ऽलङ्करणादिकम् । उदगम्भागृहचतुःशालसिंहासने न्यधुः॥ ५९॥ गोशीर्षचन्दनं दग्ध्वा सद्योऽरणिकृतानिना । तद्भसना बबन्धुस्ता रक्षाग्रन्थि द्वयोरपि ॥६॥ १ दीपहस्ताः। २ स्वपरिचयदानपूर्वकम् । ३ गतः, भाषायाम् 'खाडो' । दूर्वा भाषायाम् 'धरो' इति । ४ चतुःशालम्गृहप्रकारः, "चोसाल" इति भाषायाम् । ५ अभ्यज्य-विलिप्य । ६ न्यस्य-स्थापयित्वा। परिधाप्य-परिधान कारयित्वा । PIC उदग्-उत्तरम् । ९ अरणिकाष्ठघर्षणेन अग्निर्जायत इति प्रसिद्धम्। शीतलाजिनप्रव्रज्यादि ॥३५॥ Jan Education For Private Person Use Only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy