SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रेयांसजिनजन्मादि पूर्णकुम्भो गरीयांश्च निधानं श्रेयसामिव । महापद्म पद्मसरः पद्महद इवापरः ॥ ३७॥ आरुरुक्षुरिव दिवमुत्कल्लोलो महार्णवः । अनुजं पालकस्येव विमानवरमायतम् ॥ ३८॥ रत्नपुञश्च सर्वस्वमिव रत्नाकरोद्धृतम् । निर्धूमश्चानलो भौममण्डलस्यानुहारकः॥३९॥ एते तदा विष्णुदेव्या महास्वमाश्चतुर्दश । मुखे विशन्तोऽदृश्यन्त तीर्थजन्मसूचकाः ॥४०॥ __तपस्यकृष्णद्वादश्यां श्रवणे खङ्गिलाञ्छनम् । स्वर्णवर्ण विष्णुदेवी सुखेन सुषुवे सुतम् ॥४१॥ अथाधोलोकवास्तव्या अष्टौ भोगङ्करादयः । दिकुमार्यः समाजग्मुर्विज्ञायाऽऽसनकम्पतः॥४२॥ तीर्थकुन्मातरं नत्वा 'मा भैषीर्वादपूर्वकम् । आत्मानं ज्ञापयित्वा च कृत्वा संवर्तकानिलम् ॥४३॥ परितः सूतिकागारमायोजनमथासृजन् । खामिमातुरदरे ता गायन्त्यश्चायतस्थिरे ॥४४॥ युग्मम् ॥ नन्दनोद्यानकूटस्था ऊर्ध्वलोकजुपोऽष्ट च । एत्य मेघङ्कराद्या दिक्कन्या देवीं प्रणम्य च ॥४५॥ खं ज्ञापयित्वा कृत्वा च दुर्दिनं गन्धवारिभिः । सिषिचुः क्ष्मां सूतिवेश्मपरितो योजनावधिम् ॥ ४६ ॥ विदधुः पुष्पवृष्टिं चाधाक्षुधूपं च सुन्दरम् । गायन्त्योऽर्हद्गुणांस्तस्थुर्विष्णुदेव्या अदूरतः ॥४७॥ ॥त्रिभिर्विशेषकम् ॥ रुचकस्य च पौरस्त्या देव्यो नन्दोत्तरादयः। अपाच्याः समाहाराद्याः प्रतीचीनास्त्विलादयः॥४८॥ अलम्बुसाद्यास्तूदीच्या अष्ट प्रत्येकमेत्य ताः । नत्वाऽर्हन्तं तदम्बां च ज्ञापयित्वा स्वमुच्चकैः ॥ ४९ ॥ १ अनुजः-लघुभ्राता। २ भौमः-मङ्गलः । अनुहारक:-अनुसारी। ३ तपस्य:-फाल्गुनः। ४ खड्गी-नाण्डकः, भाषायाम् 'गेंडो' इति । ५ आयोजनम्-योजनपर्यन्तम् । ६ दुर्दिनम्-मेघजं तमः, भाषायाम् 'वादळां' इति । ७ अधाक्षुः-ज्वाळयामासुः । त्रिषष्टि. ६० Jan Education in For Private&Personal Use Only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy