SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ कुभोजनेनाहरिव निशामिव कुशय्यया । कियन्तमपि सोऽनैषीत् कालं राज्येन शुद्धधीः॥१०॥ राज्यं रुजमिवोत्सृज्य तत्त्वतौषधिमानसः । वज्रदत्तर्षिणा दत्तां दीक्षामादत्त धर्मधीः॥११॥ तप्यमानस्तपस्तीनं सहमानः परीपहान् । कमेव क्रशयन्नङ्गं विजहार स निर्ममः॥१२॥ अर्हद्भक्त्यादिभिस्तैस्तैः स्थानैः प्रवचनोदितैः । उपार्जयामास दृढं तीर्थकृन्नामकर्म सः॥ १३ ॥ महातपाः शुभध्यानश्चतुःशरणतत्परः । काले प्राप्तावसानः स महाशुक्रदिवं ययौ ॥१४॥ ततश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रभूषणम् । रत्ननूपुरवद् भूमेरैस्ति सिंहपुरं पुरम् ॥१५॥ सान्ततारका रत्नवलेभ्यस्तत्र वेश्मनाम् । श्रियं सदन्तशारस्य शारपट्टस्य विभ्रति ॥१६॥ तद्वप्रमेखलासूच्चैर्विश्रान्ता भान्ति वारिदाः । चक्षुरक्षाकृते दत्ताः कजेलस्थासका इव ॥ १७॥ वरिष्ठवनिताचारमओमञ्जीरशिञ्जितैः । वितन्यते श्रियो देव्या नित्यं सङ्गीतकोत्सवः॥१८॥ रत्नावकरवाहीनि स्रोतांस्यपि तदोकसाम् । यान्ति रत्नाकरस्रोतस्तुलां वर्षति वारिदे ॥ १९ ॥ आढ्यम्भविष्णुर्यशसा प्रभविष्णुर्भुजौजसा । विष्णुराज इति क्षमापस्तत्राभूद् विष्णुविक्रमः ॥२०॥ तत्रेन्द्रियजयो नाम गुणो बीजमिवावनौ । सस्यराशिमिवाऽसूत गुणराशिं समुज्वलम् ॥ २१ ॥ प्रंणते च विपक्षे च तुष्टा रुष्टाश्च तदृशः । ययुः स्वयंवरसक्त्वं श्रियोऽपि च भियोऽपि च ॥ २२॥ १ अर्हत्-सिद्ध-साधु-धर्मरूपं शरणचतुष्कम् । * मे रत्नं सिं संवृ०॥ २ वलभी वंशपञ्जरादिमयं गृहाच्छादनम् । ३ दन्तशार:-दन्तमयः शारः, भाषायाम्-'दांतनो पासो'। ४ शारपट्टः-पाशकपट्टः । ५ कजलस्थासका कज्जलतिलकम् । ६ चार:-गतिः । मजीरम्-नूपुरम् । शिक्षितम्-भूषणध्वनिः। ७ अवकरा-उत्करः। ८ नम्र शनी च । Jain Education Intern For Private & Personal use only Alum.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy