SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते द्वितीय पर्व प्रथमः सर्गः अजितनाथचरितम् । ॥१८१॥ प्रव्रज्या त्वादृशैरात्ता, फलत्यातीर्थकृच्छ्रियः। गौः पालकविशेषेण, कामं दुग्धे विशिष्यते ॥ १४१॥ स्थास्यामो वयमत्रैव, त्वदीहितचिकीर्षया । विहरामो वयं भव्योपकारायैव केवलम् ॥ १४२।। उदीरिते सूरिणैवं, नृपसूरः प्रणम्य तम् । उत्तस्थौ निश्चिते कार्ये, नालसन्ति मनखिनः ॥ १४३ ॥ पार्थिवोरिन्दमाचार्यपादलग्नस्य चेतसः । हठादपि ययौ वेश्म, दुर्भगां गृहिणीमिव ॥ १४४ ॥ सिंहासने निषद्याऽथ, समाहूय च मत्रिणः । स्वराज्यभवनस्तम्भानित्यभाषिष्ट भूपतिः ॥१४५॥ भो भो! गृहेऽत्र राजानो, वयमाम्नायतो यथा । मत्रिणोऽपि तथा यूयं, स्वाम्यर्थैकमहाव्रताः ॥१४६॥ युष्मन्मत्रबलेनैपाऽसाधि विद्येव मेदिनी । निमित्तमात्रं तत्राऽभूत् , दोर्बलोपक्रमस्तु नः ॥ १४७ ॥ भवन्तो विभराञ्चक्रुभूमिभारं पुराऽपि मे । घनवात-घनाम्भोधि-तनुवाता इवाऽभितः ॥ १४८ ॥ अहं तु विविधक्रीडारसमग्नो दिवानिशम् । अतिष्ठं विषयासक्त्या, सुपर्वेव प्रमद्वरः ॥ १४९ ॥ मयाऽद्य तु प्रमादोऽयमनन्तभवदुःखदः । गुरुप्रसादेनाऽज्ञायि, निशि दीपेन गर्त्तवत् ॥ १५० ॥ अज्ञानाद् वञ्चितोऽस्माभिश्चिरमात्माऽऽत्मनैव हि । चक्षुष्मानपि किं कुर्यादन्धकारे प्रसृत्वरे ? ॥१५१॥ अहो! वयमियत्कालमदान्तैरेभिरिन्द्रियैः । उत्पथेनैव नीताः स्मः, शूकलैरिव वाजिभिः ॥ १५२॥ मया विषयसेवेयं, परिणत्यामनर्थदा । कृता विभीतकतरुच्छायासेवेव दुर्धिया ।। १५३ ॥ मया दिग्जययात्रायामन्यवीर्यासहिष्णुना । गजा गन्धगजेनेव, हताः मापा निरागसः ॥ १५४ ॥ मम सन्ध्यादिपागुण्यं, प्रयुञ्जानस्य राजसु । कियत्यवितथा वाणी, छाया तालतरोरिख ॥ १५५ ॥ १ राजा । २ कुलपरम्परातः। ३ देवः । ४ प्रमत्तः। ५ अवशीकृतैःः । ६ उद्वतैः । पूर्वभवचरिते प्रथमो विमल| वाहनभवः। SROSCUSSIOSURG ॥१८॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy