________________
त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये
तृतीयं पर्व अष्टम:
सगे
॥३४६॥
शीतलस्वामिचरितम् ।
CAUSAHARSASSESARK
आनन्दाद्या एकाशीतिः प्रभोर्गणभृतोऽभवन् । देशनान्ते प्रभोश्चक्रेऽथाऽऽनन्दो धर्मदेशनाम् ॥१०९॥ आनन्ददेशनान्ते च नमस्कृत्य जगद्गुरुम् । स्थानं निजनिजं जग्मुः सुरा-ऽसुर-नरेश्वराः ॥११॥
तत्तीर्थभूर्ब्रह्मनामा यक्षस्यक्षश्चतुर्मुखः । पद्मासनः श्वेतवर्णश्चतुर्भिर्दक्षिणैर्भुजैः॥१११ ॥ मातुलिङ्ग-मुद्गरभृत्-सपाशा-ऽभयदायिभिः । वामैस्तु नकुल-गदा-ऽङ्कुशा-ऽक्षसूत्रधारिभिः ॥११२॥ तथोत्पन्ना त्वशोकेति मुद्गवर्णाऽदवाहना। बिभ्राणा दक्षिणी बाहुदण्डौ वरद-पाशिनौ ॥११३॥ फला-ऽङ्कशधरौ बाहू वहन्ती दक्षिणेतरौ । उभे अभूतां दशमार्हतः शासनदेवते ॥११४ ॥ उपास्यमानस्ताभ्यां च विजहे शीतलप्रभुः। ततः पूर्वसहस्रांस्त्रिमासोनां पञ्चविंशतिम् ॥ ११५॥
लक्षं मुनीनां साध्वीनां लक्षमेकं पडुत्तरम् । चतुर्दशपूर्वभृतां चतुर्दश शतानि च ॥ ११६॥ अवधिज्ञानधराणां द्वासप्ततिशती पुनः । सार्धाः सप्त सहस्रास्तु मनःपर्ययधारिणाम् ॥ ११७॥ शतानि सप्ततिरथ केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्रा द्वादशैव तु ॥ ११८॥ शतानि चाष्टपञ्चाशद् वादलब्धिमतां पुनः । श्रावकाणामुमे लक्षे नवाशीतिसहरुयपि ॥ ११९ ॥ श्राविकाणां चतुर्लक्ष्यष्टपञ्चाशत्सहस्रयुकू । इति जज्ञे परीवारः प्रभोर्विहरतः सतः॥ १२०॥ __ मोक्षकालेऽथ सम्प्राप्ते सम्मेताद्रिं ययौ प्रभुः । प्रपेदेऽनशनं तत्र सहस्रेणार्षिभिः सह ॥ १२१॥ मासान्ते वैशाखकृष्णद्वितीयायां निशाकरे । पूर्वाषाढागते स्वामी मोक्षेऽगात् तैः सहर्षिभिः ॥ १२२॥ कुमारभावे पूर्वाणां सहस्राः पञ्चविंशतिः । पञ्चाशत् पूर्वसहस्राः पृथिवीपरिपालने ॥ १२३ ॥ १ व्यक्षः -त्रिनेत्रः। * oर्णाब्जवा संवृ०॥ पाशाङ्कुशधरौ बाहू बिभ्रती द° संवृ० ।
SHOHRUHUSHUSHUSHAROOG
शीतलजिनस यक्षयक्षिण्यौ परिवारादिच
॥३४६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org