________________
CAREERICASARALA
प्रव्रज्यापालने पूर्वसहस्राः पञ्चविंशतिः। एवमायुः पूर्वलक्षमभृच्छ्रीशीतलप्रभोः॥१२४॥ सुविधिस्वामिनिर्वाणानिर्वाणं शीतलप्रभोः । सागरोपमकोटीषु व्यतीतासु नवखभूत् ॥ १२५॥
श्रीशीतलस्य मुनिभिः सह तैर्विमुक्तिमासेदुषो दिविषदां पतयो यथावत् ।
निर्वाणयानमहिमानमुदारशोभं चक्रुर्ययुर्निजनिजं पुनरेव लोकम् ॥ १२६ ॥ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीये पर्वणि
श्रीशीतलखामिचरितवर्णनो नामाष्टमः सर्गः ॥
॥समाप्तं च तृतीयं पर्व ॥ श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे । ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव ॥१॥
॥ ग्रन्थाग्रम्-१८०४ ॥
. पदस्थम्-शब्दरूपम्-जपरूपमिति ।
Jain Education Inter
For Private & Personal use only
allow.jainelibrary.org