SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ तृतीयं पर्व अष्टम: सर्गः शीतल खामिचरितम् । त्रिषष्टि- स्वामिनं शीतलमथ शिरःसंस्पृष्टभूतलः । नमस्कृत्याञ्जलिधर इति वज्रधरोऽस्तवीत् ॥८॥ शलाका त्वत्पादपङ्कजनखद्युतिजालजलप्लवैः । स्नायं स्नायं पुनन्ति खं धन्यास्त्रिभुवनेश्वर !॥८१॥ पुरुषचरिते भास्करेणेव गगनं हंसेनेव महासरः । पार्थिवेनेव नगरं शोभते भारतं त्वया ॥ ८२ ॥ महाकाव्ये आलोकस्तिमिरेणेव सूर्यास्तेन्दूदयान्तरे । मिथ्यात्वेन पराभूतो धर्मस्तीर्थद्वयान्तरे ॥ ८३॥ जगदन्धमिदं जज्ञे निर्विवेकविलोचनम् । अपथेषु प्रववृते दिङ्मूढमिव सर्वतः॥८४॥ ॥३४५॥ अधर्मो धर्मबुद्ध्या चाऽदेवता देवताधिया । गुरुबुद्ध्या चाऽगुरवो भ्रान्तैर्जगृहिरे जनैः॥८५॥ नरकावटैपाताय जगत्यसिनुपस्थिते । निसर्गकरुणाम्भोधिस्तत्पुण्यैस्त्वमवातरः ॥८६॥ मिथ्यात्वाशीविषो लोके प्रभविष्णुरसौ चिरम् । तावदेव न यावत् ते प्रसरेद् वचनामृतम् ॥ ८७ ॥ तन्मिथ्यात्वापसारेण सम्यक्त्वं जगतोऽधुना। भावि प्रभो! केवलं ते घातिकर्मक्षयादिव ॥ ८८॥ __ इत्थं स्तुत्वा स्थिते शके भगवान् शीतलप्रभुः। गिरा सुधामधुरया विदधे देशनामिति ॥ ८९॥ संसारे क्षणिकं सर्व नानादुःखनिबन्धनम् । मोक्षाय यतितव्यं तद् भवेन्मोक्षस्तु संवरात् ॥९॥ सर्वेषामाश्रवाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्य-भावविभेदतः ॥ ९१॥ यः कर्मपुद्गलाऽऽदानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ ९२॥ येन येन छुपायेन रुध्यते यो य आश्रवः। तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ ९३॥ प्लवः-जलपूरम् । २ सायं नायम्-अधिकं स्नात्वा । ३ सूर्यास्तस्य चन्द्रोदयस्य च अन्तरे। ४ अवटः-कूपः ।। CT५ आशीविषः-दंष्ट्राविषः सर्पः । आश्रव-संवर. स्वरूपगी शीतलजिनदेशना ॥३४५॥ Jan Education inte For Private & Personal use only Soww.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy