________________
Jain Education Internati
क्षीरोदे न्यस्य तान् केशान् शक्रे पुनरुपेयुषि । निषिद्धतुमुले बद्धाञ्जलौ द्वाःस्थ इव स्थिते ॥ ६६ ॥ सुरा - सुर-नरेन्द्राणां प्रत्यक्षमपरेऽहनि । माघस्य कृष्णद्वादश्यां पूर्वाषाढास्थिते विधौ ॥ ६७ ॥ समं नृपसहस्रेण कृतपष्ठतपाः प्रभुः । सावद्ययोगविरतिप्रतिज्ञां प्रत्यपद्यत ॥ ६८ ॥
॥ त्रिभिर्विशेषकम् ॥ तुर्यं ज्ञानं प्रभोर्जज्ञे मनःपर्ययसकम् । कृत्वा प्रणामं च ययुः स्वं स्वं स्थानं सुरादयः ॥ ६९ ॥ द्वितीयेऽह्नि रिष्टपुरे पुनर्वसुन्नृपौकसि । पारणं परमान्नेन विदधे शीतलप्रभुः ॥ ७० ॥ चक्रे च वसुधारादिपञ्चकं विबुधैस्ततः । स्वर्णपीठं पुनस्तत्र पुनर्वसुन्नृपो व्यधात् ॥ ७१ ॥ विविधाभिग्रहधरः सहमानः परीषहान् । छद्मस्थतया त्रीन् मासान् व्यहार्षीच्छीतलप्रभुः ॥ ७२ ॥ सहस्राम्रवणं भूयोऽप्याजगाम जगद्गुरुः । तत्र प्रतिमया तस्थावधस्तात् प्लक्षशाखिनः ॥ ७३ ॥ भटो प्रमिवाऽऽरुह्य शुक्लध्यानं द्वितीयकम् । जघान घातिकर्माणि रिपूनिव जगद्गुरुः ॥ ७४ ॥ पौषकृष्णचतुर्दश्यां पूर्वाषाढागते विधौ । केवलज्ञानमुत्पेदे शीतलखामिनस्ततः ॥ ७५ ॥
वप्रैस्त्रिभिश्चतुद्वारे रान-सौवर्ण- राजतैः । ततः समवसरणं चक्रुर्देवा-सुरेश्वराः ॥ ७६ ॥ तत्र प्रविश्य प्राग्द्वारा प्रदक्षिण्यकरोत् प्रभुः । चैत्यवृक्षमशीत्यग्रदशधन्वशतोन्नतम् ॥ ७७ ॥ 'नमस्तीर्थायेति वदन् पूर्वसिंहासने प्रभुः । न्यषदद् दिक्षु चान्यासु तद्रूपाण्यमरा व्यधुः ॥ ७८ ॥ तत्र तस्थुर्यथास्थानमथान्येऽप्यमरादयः । स्वामिवाचं प्रतीच्छन्तः स्तनितं बर्हिणा इव ॥ ७९ ॥ १ वप्रः - दुर्गः । * तैः । समवसरणं चक्रुर्देवास्ततः सुराऽसुराः सं० ॥ २ बर्हिणाः - मयूराः ।
For Private & Personal Use Only
www.jainelibrary.org.