SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयं पर्व अष्टमः सर्गः शीतलस्वामि| चरितम् । ॥३४४॥ पश्चाशत्पूर्वसहस्रीमपूर्वभुजविक्रमः । पूर्वक्रमागतं राज्यं शशास विधिवत् प्रभुः॥५३॥ अथ संसारसंवासाद् व्यरज्यत प्रभोर्मनः। आसनानि प्रचेलुश्च लौकान्तिकदिवौकसाम् ॥५४॥ अबुध्यन्ताऽवधिज्ञानादेवं ते त्रिदिवौकसः। जम्बूद्वीपाभिधे द्वीपे भरतार्धे च दक्षिणे ॥ ५५॥ दशमो भगवानहन् व्रतेच्छवर्तते ततः । तं वयं प्रेरयामोऽद्य सदाकृत्यमिदं हि नः॥५६॥ युग्मम् ॥ विमृश्यैषं ब्रह्मलोकात् सुराः सारखतादयः । एत्य विज्ञपयामासुरिति स्वामिनमानताः॥ ५७ ॥ अरण्यस्रोतसीवासिंस्तीर्थाभावेन दुस्तरे । संसारे विश्वकृपया तीर्थ नाथ ! प्रवर्तय ॥ ५८॥ इत्युदित्वा ययुर्ब्रह्मलोकं लौकान्तिकामराः । शीतलस्वाम्यपि ददौ दानं संवत्सरावधि ॥ ५९॥ अन्ते च तस्य दानस्य सुरेन्द्रश्चलितासनैः । दीक्षाकल्याणकस्नानं विदधे शीतलप्रभोः॥६॥ कृताङ्गरागो भगवानामुक्तांशुकभूषणः । त्रिजगद्भूषणं नाथो दत्तबाहुर्बिडौजसा ॥६१॥ अन्यैरपि धृतच्छत्र-चामरादिः सुरेश्वरैः । अध्यारुरोह शिविकारत्नं चन्द्रप्रभाभिधम् ॥ ६२॥ युग्मम् ॥ सुरा-ऽसुरसहस्राणां सहस्रैः परिवारितः। सहस्राम्रवणं नाम खपुरोपवनं ययौ ॥ ६३ ॥ ततस्तितीर्घः संसारं भारवद् भूषणादिकम् । उज्झाञ्चकार झगिति प्रभुः शिवगतिप्रियः ॥ ६४॥ शक्रन्यस्तं देवदृष्यांशुकमसँस्थले दधत् । पञ्चभिर्मुष्टिभिः केशानुच्चखान जगत्पतिः ॥६५॥ * °च्छुर्यतते सङ्घ० ॥ १ अरण्यस्रोतः-अरण्यस्थितः जलाशयः। २ तीर्थम्-उत्तरणस्थानम्, भाषायाम् 'घाट' इति ।। ३ भामुक्तम्-परिहितम् । ४ अंसः-स्कन्धः । शीतलाजिनप्रवज्यादि ॥३४४॥ Jain Education in For Private & Personal use only www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy