SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ स्वामिन् दशमतीर्थेश ! तव पादारविन्दयोः । न्यस्तान्यमूनि पुष्पाणि सम्पन्नं तु फलं मयि ॥ ३९॥ अमन्दं दददानन्दं दुःखतापार्दितात्मनाम् । मर्त्यलोकेऽवातरस्त्वं जीमूत इव नूतनः ॥४०॥ वसन्तसमयेनेव दर्शनेन तव प्रभो! । स्युरद्य नूतनश्रीकाः प्राणिनः पादपा इव ॥४१॥ त्वदर्शनपवित्राणि यानि तानि दिनानि मे । दिनानि शेषाणि पुनः कृष्णपक्षतमखिनी ॥ ४२ ॥ स्यूतानीवाऽऽत्मना नित्यं कुकर्माणि शरीरिणाम् । त्वयाऽद्य विघटन्तां द्रागयस्कान्तेन लोहवत् ॥४३॥ अत्र वा दिवि वा तिष्ठस्तिष्ठन्नन्यत्र वा क्वचित् । त्वद्वाहनमहं भूयां त्वामेव हृदये वहन् ॥ ४४ ॥ ___एवं दशममहन्तं स्तुत्वा दशशेतेक्षणः । आदायाऽऽनीय चामुश्चन्नन्दापार्श्वे यथास्थिति ॥ ४५ ॥ चक्रे दृढरथेनापि कारामोक्षादिनोत्सवः । जगतोऽपि हि मोक्षाय तादृशां जन्म पावनम् ॥ ४६॥ राज्ञः सन्तप्तमप्यङ्गं नन्दास्पर्शन शीत्यभूत । गर्भस्थेऽस्मिन्निति तस्य नाम शीतल इत्यभूत् ॥४७॥ द्युसत्कुमारकैलाधारीन्द्ररिव सेवितः । ववृधेऽम्भोधिवेलावद् जगन्नाथो दिने दिने ॥४८॥ शैशवं व्यत्यलविष्ट क्रमेण परमेश्वरः । शैशवाद यौवनं चाऽऽप ग्रामात् पुरमिवाऽध्वगः॥४९॥ प्रभुर्नवतिधन्वोच्चो रराजाऽऽजानुबाहुकः । पार्श्वतो लम्बमानोरुवल्लीक इव पादपः॥५०॥ विषयेषु निरीहोऽपि पितृभ्यां प्रार्थितः प्रभुः। चकार पाणिग्रहणं पिण्डादानमिव द्विपः ॥५१॥ अथ पूर्वसहस्राणां गतायां पञ्चविंशतौ । जग्राह पितृदाक्षिण्याद् राज्यं श्रीशीतलप्रभुः॥५२॥ १जीमूता-मेघः। २ शेषाणि दिनानि अमावास्या रूपाणि इति भावः। ३ स्यूतम्-सम्बद्धम्। त्वद्वाहनम्-स्वद्भक्तिधारक इति । ५ दशशतेक्षणः-सहस्रनयनः, इन्द्र इत्यर्थः। ६ कारामोक्षादिना-बन्दिजनमोक्षादिना उत्सवः । त्रिषष्टि. ५९ Jain Education Inted For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy