SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ त्रिपष्टिशलाकापुरुषचरिते महाकाव्ये तृतीयं पर्व अष्टमः सर्ग: शीतलस्वामिचरितम् । स्यूते च खगुणैः स्वान्ते दृढं दृढरथस्य सा । अभृद् दृढरथोऽप्यस्या उत्कीर्ण इव चेतसि ॥२५॥ इतश्च प्राणते कल्पे पद्मोत्तरमहीपतेः । जीवः स्वायुरपूरिष्ट विंशति सागरोपमान् ॥२६॥ च्युत्वा राधे कृष्णषष्ठयां पूर्वाषाढास्थिते विधौ । पद्मोत्तरनृपजीवो नन्दाकुक्षाववातरत् ॥ २७॥ नन्दावामिन्यपि तदा सुखसुप्ता व्यलोकयत् । चतुर्दश महाखमांस्तीर्थजन्मसूचकान् ॥ २८॥ माघस्य कृष्णद्वादश्यां पूर्वाषाढागते विधौ । श्रीवत्साईं स्वर्णवर्ण श्रीनन्दाऽसूत नन्दनम् ॥ २९ ॥ अष्टाधोलोकवास्तव्या ऊर्द्धलोकजुषोऽष्ट च । अष्टाऽष्टौ रुचकदिशां चतस्रो विदिशां पुनः॥३०॥ रुचकद्वीपमध्यस्थाश्चतस्रश्चलितासनाः । षट्पञ्चाशद् दिक्कुमार्यः सूतिकर्मेत्य चक्रिरे ॥३१॥ शक्रोऽप्युपेत्य तत्राऽऽशु गृहीत्वा स्वामिनं स्वयम् । सुमेरुपर्वतशिरस्युपेयाय वृतोऽमरैः ॥ ३२॥ अतिपाण्डुकम्बलायां रत्नसिंहासनोपरि । अङ्काधिरोपितपतिर्दिवस्पतिरूपाविशत् ॥ ३३॥ हदिनीनाथ-इदिनी-ददादिभ्यः समाहृतः। अभ्यषिश्चन् जलै थमथेन्द्रा अच्युतादयः॥ ३४॥ ईशानाङ्के प्रभुं न्यस्य शक्रोऽप्यस्नपयत् ततः। विकृतस्फाटिकवृषविषाणाग्रोद्गतैर्जलैः॥३५॥ दिव्याङ्गरागैश्चर्चित्वार्चित्वा चाऽऽभरणादिभिः। जगत्पतिमिति स्तोतुं समारेमे दिवस्पतिः॥३६॥ जयेक्ष्वाकुकुलक्षीररत्नाकरनिशाकर । जगन्मोहमहानिद्राविद्रावणदिवाकर । ॥३७॥ स्वामालोकयितुं त्वां च स्तोतुं त्वामचितुं तथा । आशंसाम्यात्मनोऽनन्ता दृशो जिह्वा भुजा अपि ॥३८॥ १ उत्कीर्णः-'कोरेलो' भाषा । २ वैशाखे । ३ सूतिकर्म एत्य-आगत्य । ४ दिवस्पतिः-इन्द्रः। ५ हदिनीनाथ:-समुद्रः, हदिनी-नदी। विद्रावणम्-नाशनम् । ७ 'अनन्ताः' इत्यादीनि चत्वारि पदानि द्वितीयान्तानि । शीसजिनजन्मादि ॥३४३।। Jan Education in For Private & Personal use only www.jainelibrary.org
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy