________________
इतश्च जम्बूद्वीपेऽसिन् क्षेत्रे चात्रैव भारते । श्रीभद्रं भद्रिलपुरं नामास्ति प्रवरं पुरम् ॥११॥ परिखावलयेनोच्चैः प्राकारस्तत्र काश्चनः । जम्बूद्वीपजगत्यब्धिवलयेनेव शोभते ।। १२॥ सायमार्पणवीथीषु प्रदीप्ता दीपधोरणी । तत्र संलक्ष्यते स्वर्णकण्ठिकेव पुरश्रियः ॥ १३ ॥ ऋद्ध्या महत्या भुजङ्ग-वृन्दारकविलासभूः । भोगावत्यमरावत्योरिव सारेण तत् कृतम् ॥१४॥ तसिंश्च सत्रशालासु महेभ्यर्भोजनार्थिनः । भोज्यन्ते विविधैर्भोज्यैरुत्सवे खजना इव ॥१५॥ तस्मिन् दृढरथो नाम नामितारातिमण्डलः । अभूद् भूमण्डलं व्याप्य स्थितोऽब्धिरिव भूपतिः ॥१६॥ स महर्षिगणेनापि वर्ण्यमानैर्निरन्तरम् । अधिकाधिकमव्रीयद् गुणैरप्यगुणैरिव ॥ १७॥ प्रत्यार्थिभ्यो बलादात्तामर्थिभ्यः स श्रियं ददौ । अदत्तादानदोषस्य प्रायश्चित्तमिवाऽऽचरन् ॥ १८ ॥ तस्याग्रतो भूपतयः कृतभूलुठना मुहुः । सर्वाङ्गालिङ्गितभुवो भूपतित्वं चिराद् ययुः॥१९॥ ज्ञानोपदेशलेशोऽपि तस्मिन् गुरुजनैः कृतः। वितस्तार महाप्राज्ञे सलिले तैलबिन्दुवत् ॥२०॥ मन्दाकिनीव सरितां सतीनामग्रतःसरा । तस्याभूद् हृदयानन्दा पत्नी नन्देति नामतः ॥२१॥ मन्दमन्दपदन्यासैविचरन्त्या मनोरमम् । गतौ शिष्या इवैतस्या राजहंस्योऽपि लक्षिताः॥२२॥ सुगन्धिमुखनिःश्वासं यद् यत् किश्चिदुवाच सा । प्रपेदे वचनं तत् तद् भ्रमराकृष्टिमत्रताम् ॥ २३ ॥ रूपवत्या अभूत् तस्याः स्वस्मिन्नेवोपमानता । विहायसो महत्त्वे हि नोपमानं भवेत् परम् ॥ २४ ॥ . आपणः हः । २ धोरणी श्रेणिः । ३ दानशालासु। ४ लजां प्राप । ५ सर्वाङ्गः भुवं संस्पृश्य नमस्कृत्य ययुः ।
Jain Education Inter
For Private & Personal use only
Kolwww.jainelibrary.org