SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका अष्टमः सर्गः। श्रीशीतलनाथचरित्रम्। तृतीयं पर्व अष्टम: सर्गः पुरुषचरिते महाकाव्ये शीतलस्वामिचरितम् । ॥३४२॥ श्रीशीतलजिनेन्द्रस्य पादाः शीतरुचेरिव । बोधयन्तः कुवलयं सन्तु वः शिवतातयः॥१॥ इदं जगत्रयश्रोत्रशीतलीकारकारणम् । शीतलस्य भगवतश्चरितं कीर्तयिष्यते ॥२॥ पुष्करवरद्वीपार्धे प्राग्विदेहविभूषणे । विजये वत्ससंज्ञेऽस्ति सुसीमा नाम पूर्वरा ॥३॥ तस्यां पद्मोत्तराख्योऽभन्नपः सर्वनृपोत्तरः । अनुत्तरविमानिभ्य इवैकः कश्चिदागतः॥४॥ अलक्ष्यशासने सर्वप्राणिनां करुणापरे । सोदराविव तत्राऽऽस्तां वीर-शान्ताभिधौ रसौ ॥५॥ उपायैर्वर्धयस्तैस्तैः सोऽनपायैरनेकशः । नित्यं धर्म जजागार भाण्डागार इवेश्वरः॥६॥ अद्य श्वो वा भृशममुं त्यजामीति स चिन्तयन् । संसारवासे विदेशस्थायीवास्थादनास्थया ॥७॥ __अन्यदा राज्यमुत्सृज्य प्राज्यमप्यश्मखण्डवत् । स्रस्ताघसूरिपादान्ते स प्रव्रज्यामुपाददे ॥८॥ व्रतानि निरतीचाराण्याचरनार्जयत् सुधीः । स तीर्थकृन्नामकर्म स्थानकैरागमोदितैः॥९॥ विविधाभिग्रहस्तीत्रैस्तपोभिर्विविधैरपि । जन्मातिवाह्य सकलं सोऽभवत् प्राणतेश्वरः॥१०॥ .कुमुदम् पृथ्वीवलयं च । २ शिवविस्तारकारिणः। ३ अनपाय:-निर्दोषः । ४ भाण्डागार:-भंडार इति भाषा । ५ परदेशहवासी इव। ६ भागमे हि तीर्थकरनामहेवनि विंशतिः निमित्तानि प्रसिद्धानि। .प्राणतस्वर्गस्पेन्द्रः। शीतलजिनपूर्वभवसम्बन्धः ॥३४२॥ For Private & Personal use only www.jainelibrary.org. Jain Education Internationa III
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy