SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte परस्य निन्दा - ऽवज्ञोपहासाः सद्गुणलोपनम् । सदसद्दोषकथनमात्मनस्तु प्रशंसनम् ॥ १३० ॥ सदसद्गुणशंसा च सदोषाच्छादनं तथा । जात्यादिभिर्मदश्चेति नीचैर्गोत्राश्रवा अमी ॥ १३१ ॥ चैत्राश्रवविपर्यासो विगतगर्वता । वाक्काय-चित्तैर्विनय उच्चैर्गोत्राश्रवा अमी ॥ १३२ ॥ दाने लाभे च वीर्ये च तथा भोगोपभोगयोः । सव्याजा-ऽव्याजविनोऽन्तरायकर्मण आश्रवाः ।। १३३ ॥ तदित्याश्रवजन्माऽयमपारो भवसागरः । प्रव्रज्यायानपात्रेण तरणीयो मनीषिणा ॥ १३४ ॥ कुमुदानीन्दुभासेवाबुध्यन्त बहवस्तदा । धर्मदेशनया भर्तुः प्राव्रजंश्च सहस्रशः ॥ १३५ ॥ अष्टाशीतिर्वराहाद्या आसन् गणभृतः प्रभोः । देशनान्ते च विदधे वराहो धर्मदेशनाम् ॥ १३६ ॥ गणभृदेशनान्तेऽयुः स्वं स्वं स्थानं सुरासुराः । नन्दीश्वरस्य मध्येन कुर्वन्तोऽष्टाहिकोत्सवम् ॥ १३७ ॥ तत्तीर्थजन्मा त्वजितः श्वेताङ्गः कूर्मवाहनः । बिभ्राणो दक्षिणौ बाहू मातुलिङ्गाऽक्षसूत्रिणौ ॥ १३८ ॥ वाम नकुल- कुन्तधारिणौ धारयन् भुजौ । नित्यमासन्नवर्त्त्यासीद् भर्तुः शासनदेवता ॥ १३९ ॥ तथोत्पन्ना सुताराख्या गौराङ्गी वृषवाहना । वरदं साक्षसूत्रं च विभ्राणा दक्षिणौ भुजौ ॥ १४० ॥ कलशा-कुशिनौ बाहू दधाना दक्षिणेतरौ । पारिपार्श्विक्यभून्नित्यं भर्तुः शासनदेवता ॥ १४१ ॥ ताभ्यामधिष्ठितायैर्णः कृपारसमहार्णवः । विजहार जगन्नाथो जगतीं बोधयन् जनान् ॥ १४२ ॥ साधुद्विलक्षी साध्वीनां लक्षं विंशसहस्रयुक् । अवधिज्ञानिनामष्टौ सहस्राः सचतुःशताः ॥ १४३ ॥ सहस्रं पूर्विणां सार्धं मनःपर्ययिणां पुनः । पञ्चसप्ततिशत्येषा केवलज्ञानिनामपि ॥ १४४ ॥ 1 १ तदिति तेन पूर्वोक्तेन प्रकारेण । * सुरेश्वराः संवृ० ॥ + च सं० ॥ २ अभ्यर्णम् - सामीप्यम् । For Private & Personal Use Only सुविधिजिन शासन देव देण्यौ सुविधिजिमपरिवारः www.jainelibrary.org.
SR No.600062
Book TitleTrishashti Shalaka Purush Charita Mahakavyam_02
Original Sutra AuthorHemchandracharya
AuthorCharanvijay
PublisherAtmanand Jain Sabha
Publication Year1950
Total Pages574
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy